________________
३९४
हीरसौभाग्यम्
[सर्ग १३ श्लो० ११७-११८
अथ रात्रिविरामानन्तरं सूरिः फतेपुरं प्रत्यचलत् प्रतिष्ठने स्म । किं कृत्वा । प्राभातिक प्रभातकालसंबन्धि कृत्यमावश्यकादिकं करणीयं प्रणीय निर्माय । क इव । सिद्धधुनीप्रवाह इव । यथा गङ्गायाः पयःपूरः अम्बुधिं समुद्र प्रति प्रचलति । किंभूतः सरिः प्रवाहश्च । तृणीकृतं तिरस्कृतं निवारितमहः पापं येन । पुनः किंभूतः । विशदो निर्मलो निष्पाप उज्ज्वलश्चाशयो मना मध्यं च यस्य ॥
શ્લોકાર્થ
નિષ્પા૫ અને ઉજજવલ આશયવાળા આચાર્યદેવે જેમ ગંગાને પ્રવાહ સમુદ્ર તરફ ચાલે તેમ પ્રભાતિક કર્તવ્ય પતાવીને જગમાલને ત્યાંથી ફત્તેપુર તરફ प्रया ४युः ॥ ११७ ॥
स श्रीकरी कैरविणीशकीतिः प्रावीविशद्विश्वजनीनमूर्तिः । महासमूहोऽम्बुजबान्धवस्य विभावरीवल्लभमण्डलीवत् ॥ ११८ ।।
स सूरिः श्रीकरी पातिसाहिपुरी प्रावीविशन प्रविशति स्म । किंवत् । विभावरीवल्लभमण्डलीवत् । यथा अम्बुजबान्धवस्य भानार्म हःसमूहः किरणकलापः चन्द्रबिम्ब प्रविशति । अमावास्यायां हि चन्द्रः सूर्यसमीपे गत्वा किरणगणं मार्गयित्वा तेनाभ्युदर्य लभते । यथा रघुवंशे–'पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः' इति । किंभूतः सूरिश्रन्द्रश्च । कैरविणीशः शारदचन्द्रः तद्वद्विशदा कोतिर्यस्य । कैरविणीनां कुमुदतीनामीशत्वेन पतितया कीर्तिः ख्यातिर्यस्य । अथ वा । कैरविणी श्वेतकमलिनी तथा ईश ईश्वरस्तद्वदुन्जला कीर्तिविस्तारः करप्रसारः सान्द्रचन्द्रिका यस्य । अथ वा जैनमतानुसारेण कुमुदिनीशकरवद्विशदा कीर्तिः प्रासादः स्फाटिकचैत्यं वा यस्मिश्चन्द्र मण्डले । 'कीर्तिर्यशसि विस्तारे प्रासादिकदमेऽपि च' इत्यनेकार्थः । पुनः किंभूतः । विश्वजनेभ्यो हिता विश्वजनीनी । 'तत्र साधौ हिते च यः' इति । भुवनजनवत्सला प्रबोधकारित्वान्मूर्तियस्य । चन्द्रस्तु औषधीपतित्वादमृतमयत्वात् शैत्यकारित्वाच्चन्द्रकापतित्वाच्चाहादकारिणी हितकारिका च मूर्तिबिम्बं यस्य ।
શ્લેકાથી
જેમ સૂર્યનાં કિરણેને સમૂહ ચંદ્રમંડલમાં પ્રવેશ કરે, તેમ ચંદ્રિકા સમાન ઉજજ્વલ કીર્તિવાળા અને વિશ્વજનને આહ્લાદકારી મૂર્તિ જેમની એવા આચાર્ય દેવે શ્રીકરી નગરીમાં પ્રવેશ કર્યો. એ ૧૧૮ છે