Book Title: Heersaubhagya Mahakavyam Part 02
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 400
________________ सर्ग १३ श्लो ० १०९-१११ ] हीरसौभाग्यम् विहिताभियोगस्य सूनध्वजो मदनः स एव उधिवो भूपतिस्तस्य गन्धनागाः सप्तधाप्रस्रवत्प्रबलमदजलसुगन्धितबन्धुरसिन्धुरा इव । राज्ञां हि हस्तिभिर्भाव्यम् । चण्ड प्रद्योतस्येव ॥ શ્લેકાર્થ જલપૂર્ણ મેની શ્રેણી ચારે દિશામાં પર્યટન કરતી ગગનમાર્ગને શોભાવતી હતી; શું તે ત્રણે લેકને ય કરવા માટે ઉઘત થયેલા કામદેવરૂપી રાજાના अपहरित नही डाय ! ॥ १० ॥ नभःस्थलीसंवलिताम्बुवाहान्समीक्ष्य रासा ददिरे प्रमोदात् । कुटुम्बिनीभिः किमु शूरराजाभिभूतिजायास्तदुपज्ञकीतेः ॥ ११० ॥ नभःस्थल्यां गगनमण्डले संवलितान्बहलीभूतानम्बुवाहान वारिधरान् समीक्ष्य सोत्कण्ठ विलोचनगोचरीकृत्य कुटुम्बिनीभिः कुटुम्बिकघनस्तनीभिः प्रमोदात् हर्षाति रेकात रासा रासका ददिरे दत्ताः । यदुक्त चम्पूकथायाम्-'कलापोच्चमुखमण्डलाः' इति । 'काय जलधरपानीयाय लापाः शब्दाः कुटुम्बिनीजनजेगीयमानमेघरासकास्तैः कृत्वा उच्च मेघागमनावलोकनायोर्वीकृतं मुखमाननं यैस्तादृशा मण्डला देशा यासु' इति तट्टिप्पनके । इति मेघागमे कुटुम्बिनीनां रासकप्रदानम् । उत्प्रेक्ष्यते-शूराणां शतसहस्रलक्षकोटियोधिनां सुभटानां भास्कराणां च तथा राज्ञां सामन्तनृपाणां मूर्धाभिषिक्तानां सम्राजां चन्द्राणां चाभिभूतैः पराभवनाजायते इति शुरराजाभिभूतिजा तस्यास्तदु. पज्ञः स मेघ एव उपज्ञा आद्य ज्ञान यस्याः सा चासौ कीर्तिश्च तस्या इव सुभटराजजयोपार्जिताया मेघस्य कीतिरिव रासका इत्यर्थः॥ શ્લોકાઈ ગગનમંડલમાં ઘણાં વાદળને જોઈને ખેડૂત પત્નીઓ હર્ષ પૂર્વક રાસડા-રાસ લેતી હતી; જાણે સૂર્યચંદ્રનો પરાભવ કરવાથી ઉત્પન્ન થયેલી મેઘની યશગાથા ગાતી ન હોય ! ! ૧૧૦ છે तदा वराणां द्विजवत्कनीनां गर्जात्तवेदध्वनिरम्बुवाहः । शाखाकरैग्राहयति स्म भूमीरुहां प्रवालानकरांल्लतानाम् ॥ १११ ॥

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482