Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 'अमद्रस्य दिशः' // 74 / 16 // इति सूत्राभ्यां वृद्धिविधानमेव / ग्रहमवतेति न्यायेन सुमगधादिशब्देभ्यो जनपदान्तत्वेन णित्प्रत्यय एव न भविष्यतीति आभ्यां वृद्धिकरणस्य निर्विषयत्वमेव / अत एव चायं न्यायो ग्रहणवतेति न्यायस्यापवादः / एवमुत्तरोऽपि // 2 // ऋतो:द्धिमद्विधाववयवेभ्यः // 3 // यस्मिन् परे वृद्धिप्राप्तिः स णित्प्रत्ययो वृद्धिमानिह गृह्यते / ऋतुवाचकाद् णित्प्रत्ययस्य विधौ कर्तव्ये तदवयवपूर्वादृत्वन्तादपि स विधिः स्यात् / तेन वर्षासु भवं धार्षिकमित्यत्र यथा केवलाद्वर्षाशब्दाद् 'वर्षाकालेभ्यः' // 6 // 3 // 80 // इतीकण भवति तथा पूर्वाश्च ताः वर्षाश्च पूर्ववर्षाः तासु भवं पूर्ववार्षिकमित्यत्र वर्षान्तादपि वर्षाकालेभ्य इतोकण सिद्धयति / ज्ञापकमस्य 'अंशादृतोः' // 7 / 4 / 14 // इत्यनेनांशवाचिनः परस्य ऋतुमद्वाच्युत्तरपदस्य वृद्धिविधानमेव / अंशाहतोरित्यनेनोत्तरपदवृद्धिस्तावद् वर्षाकालेभ्य इत्यादिसूत्रविहिते णित्प्रत्यये परे एव भवति, स च णित्प्रत्ययो यदि पूर्ववर्षादिशब्देभ्य ऋत्वन्तत्वेन ग्रहणवतेतिन्यायानायास्यत्येवेति अंशाटतोरिति वृद्धिविधानं व्यर्थ सज्ञापयतीमं न्यायम् // 3 // - स्वरस्य इस्वदीर्घप्लुताः // 4 // अयं भावः-हस्वाद्यादेशाः स्वरस्यैव स्युनतु व्यञ्जनस्य / तेन सह श्रिया वर्तते सश्रि कुलमित्यत्र ईतः 'क्लीबे' // 2 / 4 / 97 // इत्यनेन ह्रस्वो यथा भवति तथा तत् इत्यत्र तकारस्य लवर्णतवर्गलसा दन्त्या इत्यासन्नत्वेन ह्रस्वः प्राप्तोऽपि व्यञ्जनत्वान्न भवति / तथा च प्रत्यञ्चन्तीति क्विपि तान् प्रतीचः इत्यत्र -- अच्च प्राग् दीर्घश्च' // 2 / 1 / 104 // इत्यनेनाचश्चत्वे प्राक्स्थितस्य इतो यथा दीर्घस्तथा दृषदमञ्चन्तीति विपि तान् दृषञ्चः इत्यत्र पूक्तिसूत्रेणाचश्चत्वे प्राक्स्थितदकारस्य पूर्ववदासन्नत्वेऽपि व्यञ्जनत्वान्न दीर्घप्राप्तिः / तथैव च है चैत्र 3 पहि; अत्र अकारस्य 'दुरावामन्त्र्यस्य' // 7 / 4 / 99 // इत्यनेन प्लुतत्वं यथा तथान्यत्र कुत्रापि व्यञ्जनस्य न। ज्ञापकमस्य न्यायस्य ह्रस्वाद्यादेशविधायके तत्तद्विधौ प्रायःस्थान्यनुपादानम् / स्थानिविशेषानुक्त्या स्वरवद् व्यञ्जनस्यापि ह्रस्वाद्यादेशप्रसङ्गे प्रतिषेधार्थोऽयं न्यायः // 4 // आधन्तवदेकस्मिन् / / 5 // अयमाशयः-यत्रैकमेव वर्णाद्यस्ति कार्य तु तदादिकस्य तदन्तस्य वोक्तं तत्र तदेवैकं वर्णाद्यादित्वेनान्तत्वेन प्रकल्प्य तत्तत् कार्य करणीयम् / तत्रादित्वेन प्रकल्पनं यथा-ईहाञ्चके इत्यादौ धातोर्गुरुनाम्यादित्वेन परोक्षायां 'गुरुनाम्यादे'-३।४।४९ // इत्यनेनाम् भवति यथा तथैव ईडूच् गतावित्यस्य परोक्षायामयाञ्चक्रे इत्यादावपि नामिमात्रस्यैव नाम्यादित्वकल्पनयाम् क्रियते / ज्ञापकम
Loading... Page Navigation 1 ... 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254