Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1252
________________ // परिशिष्टानि // // तत्तत्स्थले प्रमादान्न निर्दिष्टानि सूत्राणि // . उत्तरार्द्ध२९-२ अद्यतनी दि ताम् अन् सि तम् त अम् व म त आताम् अन्त थास् आथाम् ध्वम् इ वहि महि // 3 / 3 / 11 // इमानि वचनानि अद्यतनीसंज्ञानि स्युः / 481 पृष्ठे 4 पंक्तेः पश्चात् / 33-2 माङयद्यतनी // 5 / 4 / 39 // माङयुपपदे धातोरद्यतनी स्यात् / सर्वविभक्त्यपवादः / मा भवान् भूत् / कथं मा भवतु तस्य पापं मा भविष्यति इति ? असाधुरेवायम् / केचिदाहुरङितो माशब्दस्यायं प्रयोगः। * 33-3 सस्मे ह्यस्तनी च // 5 / 4 / 40 // स्मशब्दसहिते माङयुपपदे धातोबस्तनी चकारादद्यतनी च स्यात् / मास्म भवत् / मास्म भूत् / इमे द्वे सूत्रे 481 पृष्ठे 16 पंक्त्यनन्तरं गृहीतव्ये / 246-2 आद्योऽश एकस्वरः // 4 / 1 / 2 // अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवो द्विः स्यात् / 539 पृष्ठे 6 पंक्तौ 'पक्षे' इति पदानन्तरम् / 336-2 अपाचतुष्पात्पक्षिशुनिहृष्टान्नाश्रयार्थे // 4 / 4 / 96 // अपात्परस्य किरतेश्चतुष्पदि पक्षिणि शुनि च कर्तरि यथासंख्यं हृष्टेऽन्नार्थिनि आश्रयार्थिनि सति सडादिः स्यात् / अपस्किरते वृषभो हृष्टः। हर्षाद्विलिख्य तट विक्षिपतीत्यर्थः। अपस्किरते कुक्कुटो भक्ष्यार्थी / विलिख्यावस्कर विक्षिपतीत्यर्थः / अपस्किरते श्वाश्रयार्थी / विलिख्य भस्म विक्षिपतीत्यर्थः / अपादिति किम् / विकिरति वृषभो हृष्टः / एष्विति किम् / अपकिरति बालो धूलिं हृष्टः / हृष्टादिष्विति किम् / अपकिरति हस्ती रजश्चापलेन / 562 पृष्ठे 18 पंक्तेः पश्चात् / / 534-2 वा स्वीकृतौ // 4 / 3 / 40 // स्वीकृतौ वर्तमानाद्यमेः पर आत्मनेपदविषयः सिच् किद्वद्वा स्यात् / उपायत / - 623 पृष्ठे 2 पंक्तौ 'वेश्यामुपयच्छते' इत्यनन्तरम् / 997-2 उपसर्गाद्देदेविक्रुशः // 5 / 2 / 69 // उपसर्गात् परेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यो णकः स्यात् / आदेवत इत्येवंशील आदेवकः / परिदेवकः / देवीति दीव्यतेर्देवतेर्वा ण्यन्तस्य ग्रहणम् / आदेवयतीति आदेवकः /

Loading...

Page Navigation
1 ... 1250 1251 1252 1253 1254