Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1240 परिदेवकः / आक्रोशकः / परिक्रोशक;। उपसर्गादिति किम् / देवनः / देवयिता। क्रोष्टा / देवतेय॑न्तादेवेति कश्चित् / 726. पृष्ठे 15 पंक्तेरनन्तरम् / 1062-2 परे_तयोगे // 2 / 3 / 103 // परिसंबन्धिनो रेफस्य घ अङ्क योग इत्येतेषु शब्देषु परेषु लो वा स्यात् / इति लत्वे पलिघः / पल्यङ्कः, पर्यङ्कः / पलियोगः, परियोगः। 1062-3 ऋफिडादीनां डश्च ल : // 2 / 3 / 104 // ऋफिड इत्यादीनामृरो ललौ डकारस्य च लो वा स्यात् / लुफिडः / लुफिलः / ऋफिलः। ऋफिडः / लतकः / ऋतकः / कपलिका / कपरिका / तल्पलीकम् / तर्परीकम् / कपिलकम् / कपिरकम् / लोमानि / रोमाणि / अङ्गुलिः। अङ्गुरिः / पुलुषः। पुरुषः / तलुनः / तरुणः / सलिलम् / सरिरम् / अलम् / अरम् / मूळम् / मूरम् / कलिलः / करीरः / कल्य / कर्म / मुकुलम् / मुकुरम् / पांसुलः। पांसुरः। लेखा / रेखा / लिक्षा। रिक्षा / लोहितम् / रोहितम् / इत्यादि / अर्थभेदेऽपिइला भूमिः / इरा अमृतम् / तल्पलो गजेष्वेकदेशः। तर्परः पशूनां कण्ठघण्टः / कलभो बालहस्ती। करभः उष्ट्रः / शलभः पतङ्गः। शरभोऽष्टापदः / कालो वर्णकारो रक्षानिर्देशः। बालः केशः / वाः क्रियाभ्यात्तिः / लघुरपचितपरिणामः। रघुः राजा / गलः प्राण्यङ्गम् / गरो विषम् / एवं मुद्गल, मुद्गर, मण्डल, मण्डर, कन्दरादयोऽपि द्रष्टव्याः। एकार्थेऽपि दृश्यते / गलं गरं च / वडिशं बलिशं / डश्च ल:-ऋफिलः, ऋफिडः / वलभी, वडभी। चूडा, चूला / इला, इडा / व्यालः, व्याडः / पुरोलाशः, पुरोडाशः। षोलशः। षोडशः। (बलिशम्, बडिशम् ) पुलिनम् , पुडिनम् / पीला, पीडा / यथादर्शनमन्येऽपि ऋफिडादौ द्रष्टव्याः। संयुक्तस्य आदेश्च न दृश्यते / पाण्डुः। कण्डूः। डामरः। डीनः / डुण्डुमः। डिण्डिमः। 1062-4 जपादीनां पो वः॥२ / 3 / 105 // जपादिशब्दसंबन्धिनः पकारस्य वकारादेशो वा स्यात् / जवा, जपा। पारावतः, पारापतः / त्रिविष्टपम्, त्रिविष्टवम् / पारापारः, पारावारः / कवाटः, कपाट; / विष्टवम् , विष्टपम् / कवलः, कपल: / अवाची, अपाची / जपादयः प्रयोगतोऽनुसर्तव्याः / त्रीणीमानि सूत्राणि 871 पृष्ठे 1 पंक्तौ 'परिहण्यतेऽनेनेति परिघोऽर्गला' इत्य० गृही। 1155-2 एकोपसर्गस्य च घे // 4 / 2 / 34 // एकोपसर्गस्यानुपसस्य च छदेर्घपरे णौ ह्रस्वः स्यात् / 884 पृष्ठे 15 पंक्तौ गृहीतव्यम् /
Loading... Page Navigation 1 ... 1251 1252 1253 1254