Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1225 क्वचिच्च न बाध्यतेऽपि / यथा प्रकृत्येत्यत्र यपः पित्वेन क्त्वाकित्त्वस्यावाधनाद् गुणाभावः // 131 // परादन्तरङ्गं बलीयः // 132 // यथा स्योमा इत्यत्र सीव्यतेः 'मन्वन्' // 5 // 12147 // इति मनि 'वोःप्वय् ' // 4 / 4 / 121 // इति वलोपमपवादत्वात् 'लघोरुपान्त्यस्य' // 4 / 3 / 4 // इति गुणं च नित्यत्वाद् बाधित्वा ऊटि कृते तदनु च परत्वादुपान्त्यगुणे प्राप्तेप्यन्तरङ्गत्वात् प्रथमं यत्वं सिद्धं पश्चात्तु ऊटो गुणः। यद्यपि परान्नित्यं नित्याद- . न्तरङ्गमिति न्यायाभ्यामस्य भ्यायस्या लब्ध एव तथापि तयोाययोः परादन्तरङ्गमित्यस्य च न्यायस्य भिन्नभिन्नोदाहरणेश्ववतारात् परादन्तरङ्गमित्येषोऽपि न्यायो दर्शितः // 132 // प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते // 133 // . लोपशब्दस्य लुग्लुपोर्वाचकत्वेऽपि लुकि स्थानिवभावेनैव सिद्धत्वाल्लुप्येतन्न्यायाधिकारः। प्रत्ययस्य लुपि सत्यां 'लुप्यम्वृल्लेनत्' // 7 / 4 / 112 // इति सूत्रेण यवृल्लत्वैनदादेशवर्जानां तन्निमित्तकसर्वकार्याणां निषेधे कृतेऽपि लुप्तप्रत्ययान्तनिर्दिष्ट कार्याणामनुमत्यर्थोऽयं न्यायः / यथा मासेन पूर्वायेत्यत्रवन्मासपूर्वायेत्यत्र 'ऐकार्थे' // 3 / 2 / 8 // इत्यनेन समासान्तर्वतितृतीयाया लुप्यपि तृतीयान्तलक्षणः 'तृतीयान्तात् पूर्वापरं योगे' // 1 / 4 / 13 // इत्यनेन पूर्वशब्दस्य सर्वादि. त्वनिषेधः सिद्धः। तथा पापचीति / अत्र लुबन्तरङ्गेभ्य इति न्यायात् प्रथममेव यङो लुप्यपि एतन्न्यायेन यङन्तलक्षणं 'सन्यङश्च' // 4 // 1 // 3 // इति द्वित्वं सिद्धम् / शापकं चास्य 'सिविदोऽभुवः' // 4 // 192 // इत्यत्र भूवर्जनम् / तथाहि-अभूवन्नित्यत्रानः पुसादेशनिषेधार्थ हि तत्कृतम् / परमत्र भुवो सिज्लुबन्तत्वेन सूत्रे च सिजिति सिजन्तस्य ग्रहणात् पुसादेशस्य प्राप्तिरेव नास्ति तथापि यद्भवर्जनं तज्ज्ञापयति लुप्तसिजन्तस्यापि सिजन्नकार्यमेतन्न्यायात् प्राप्नोतीति / क्वचिदनित्योऽयम्। यौधेयशब्दस्य 'द्रेरञणोऽप्राच्यभर्गादेः' // 61 // 23 // इत्यञ्लोपविधायकसूत्रस्थभर्गादिगणे पाठात् / तथाहि-युधा नाम काचित् तस्या अपत्यानि 'द्विस्वरादनद्याः' // 6171 // इत्येयणि यौधेयाः / ते शस्त्रजीविसंघाः स्त्रीत्वविशिष्टा विवक्षिता इति 'यौधेयादेः०' // 73 / 65 // इत्यत्रि 'अणजेय०' // 24 // 20 // इति ज्यां यौधेय्य इति निष्पन्नम् / अत्र च 'द्रेरअणो०' इत्यनेनानो लुप् प्राप्नोति / अञो लुक्करणे च निमित्ताभावे इति न्यायादनिमित्तकाया वृद्धेनिवत्त्या यधेय्य इति रूपं स्यात् / लोपाभावात्त यौधेय्य इत्येव स्थितम / तदन यौधेयीनां संघो यौधेयमित्यत्राअन्तलक्षण: संघघोषा०" // 63172 // इत्यनेनाण यथा स्यादित्येवमर्थ तावद्भर्गादिगणपाठेन यौधेयशब्दात् शस्त्रजोविसंघार्थादागतस्याओ लुप् प्रतिषिध्यते। नित्यत्वे त्वस्य लुब्भूतेऽप्यत्रि तदन्तलक्षणः संघघोषाङ्कः' इत्यण् भविष्यत्येवेति किमर्थ यौधेयशब्दस्य भर्गादिपाठः क्रियेत। यत्त्वसौ कृतस्तदनो लुब्भवने एतन्न्यायस्य क्वचिदनित्य 154
Loading... Page Navigation 1 ... 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254