Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1228 पचतिरूपमित्यादौ 'पदं वाक्यमव्ययं चेत्यसंख्यं च' इति लिङ्गानुशासनपाठादलिङ्गस्यापि त्याद्यन्तपदस्य क्लीबत्वं सिद्धम् इत्यादि / तथा केऽपि शब्दाः पदान्तरस्य सापेक्षाः केऽप्यनपेक्षाश्च तत्तल्लिङ्गान्याहुः। तत्र सापेक्षो यथा-इयं गौः अयं गौः / अत्र गवार्थस्योभयलिङ्गत्वादियमितिपदापेक्षेण गोपदेन स्त्रीपुंसत्वमुच्यते / तस्य स्त्रीपुंसत्वानुक्तावियमयमिति विशेषणयोः स्त्रीपुंसत्वानुपपत्तेः अ. नपेक्षास्तु त्रिभिः प्रकारैस्तत्तल्लिङ्गान्याहुः। नाममात्रेणाऽऽदेशेन प्रत्ययेन च / तत्र नाममात्रेण यथा-माता, पिता / अत्र नाममात्रमेव स्त्रीपुंसत्वोक्तौ क्षमम् / आदेशेन यथा-तिस्रः। अत्र स्त्रीत्वं विनाऽप्युपपद्यमानेन तिस्रादेशेन स्त्रीत्वं प्रतीयते। एवं क्रोष्टा / अत्र पुंस्त्वजेन क्रुशस्तुनस्तृजादेशेन पुंस्त्वम् / प्रत्ययेन-यथा-राज्ञी। अत्र स्त्रीत्वोद्भवेन ङीप्रत्ययेन स्त्रीत्वम् / गोचरः-इत्यत्र पुंनामत्वोद्भवेन 'गोचरसंचर०' // 5 / 3 / 131 // इति घेन पुंस्त्वम् / संख्यावैचित्र्यं यथा-अं अः क) पशषसाः शिट' // 1 / 1 / 16 // इत्यत्र संज्ञिषड्त्वेऽपि संज्ञाया एकवचनम् / दारा:-अत्रार्थैकत्वेऽपि बहुवचनमित्यादि // 140 // किंहि वचनान्न भवति // 141 // वचनमिष्टार्थप्रत्यायनं तद्वलात् किं न स्यात् / काक्वा सर्व स्यादित्यर्थः / इष्टार्थप्रत्यये सति शिष्टप्रयोगानुसारेण केचिद्विधयोऽप्राप्ता अपि प्रवर्त्यन्ते, प्राप्ता अपि च केचिन्न प्रयय॑न्ते / इष्टार्थप्रत्ययाभावे तु प्राप्ता अपि केञ्चिद्विधयो न प्रवर्त्यन्ते इति यावत् / 'समर्थः पदविधिः // 74 / 122 // इत्यस्यापवादोऽयं न्यायः / तत्राप्राप्तप्रवर्तनं यथा-सूर्यमपि न पश्यन्त्यसूर्यपश्या राजदाराः / 'असूर्योग्राद् दृशः // 5 / 1 / 126 // इति खश् / वत्सेभ्यो न हितो अवत्सीयो गोधुक् / 'तस्मै हिते' // 71 / 35" इतीयः। अत्र नञः क्रमाद् इशिना हितेन च संबन्धोऽस्ति / न सूर्येण वत्सैश्चेति समस्यमानपदानां मिथः संबन्धाभावादसा. मर्थ्येऽपि इष्टार्थगमकत्वात् समासः सिद्धः / प्राप्ताप्रवर्तनं यथा-'नहाहोर्धतौ' // 2 // 1385 // अत्र धात्वग्रे इकिश्तिवो न / इष्टार्थप्रत्ययाभावे प्राप्ताप्रवर्तनं यथासङ्घस्य भद्रं भूयादित्यत्र सङ्घभद्रमिति षष्ठीसमासो न / नहि संघभद्रं भूया, दित्युक्ते संघस्य भद्रं भूयादिति प्रतीयते अपि तु संघभद्रं नाम संघसंबन्धितया प्रसिद्ध किञ्चिद्भद्रं कस्यचिद् भूयादिति / अभिधानलक्षणाः कृत्तद्धिसमासाः स्युरित्यपि न्यायोऽस्ति / अस्यार्थः-अभिधानमिष्टार्थप्रत्यायनं तदेव लक्षणं चिन्हं येषां कृदादीनां, कोऽर्थः इष्टार्थप्रत्ययसंभवे कृदादयः स्युस्तदभावे तु नेति / एवं च प्रस्तुतन्यायानुवाद्येवायमपि न्यायः। अथ किं हि वचनादिति न्यायस्यान्योऽर्थः कथ्यते / वचनादिति कोऽर्थः / सूत्रोक्तविधानबलात् किं न स्यात् / काक्वा अप्राप्ता अपि विधयः प्रवर्तन्त इत्यर्थः / यथा श्रेष्ठः श्रेयान् / अत्र इष्ठेयस्वोः परयोः श्रादेशविधानबलेनागुणाङ्गादपि प्रशस्यशब्दाद् ‘गुणाङ्गाद्वेष्ठेयसू' // 1 // 3 // 9 // इत्यनेन इष्ठेयसुप्रत्ययौ न प्राप्नुतः / तथापि. इष्ठेयस्वोः प्रत्यययोः परयोः प्रशस्यशब्दस्य 'प्रशस्यस्य श्र' // 7 // 34 // इति सूत्रेण श्रादेशो
Loading... Page Navigation 1 ... 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254