Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1239
________________ 1226 त्वात्तदन्तलक्षणः ‘संघघोषाङ्क०' इत्यण् न भविष्यतीत्याशंकयैव // 133 // विधिनियमयोविधिरेव ज्यायान् // 134 // * विधिनियमरूपौ द्वौ व्याख्याप्रकारौ संभवतस्तत्र नियममपास्य विधिरेव व्याख्येयस्तस्यैवाप्राप्तप्रापकत्वेन प्रधानत्वात् / शास्त्रान्तरे व्याख्या क्वापि नियमिता नास्ति तस्या यथाकामोनत्वात् / व्याकरणे तु तस्या अपि नियमना र्थोऽयं न्यायः / यथा- प्रत्यभ्यतेः क्षिपः' // 3 // 3 // 102 // इत्यत्र क्षिपीत् प्रेरणे इत्ययं क्षिपिरुभयपदी तौदादिको व्याख्येयस्तस्यैव परस्मैपदविध्यर्हत्वात् , न तु क्षिपंच प्रेरणे इत्ययं केवलपरस्मैपदी देवादिकस्तस्य सिद्धपरस्मैपदवत्त्वेन सूत्रस्य नियमार्थताप्रसंगात् / नियमश्चायम्-प्रत्यभ्यतिपूर्वादेव क्षिपेः परस्मैपदं नत्वन्योपसर्गपूर्वादनुपसर्गाद्वेति / तदेवं प्राप्तनियमार्थतायास्त्यागेन विधिरेवात्र गृह्यते // 134 // अनन्तरस्यैव विधिनिषेधो बा // 13 // तत्र निषेधो यथा-'नामन्त्र्ये' // 2 / 1 / 92 // इत्यनेन 'नाम्नो नोऽनह्नः // 2 // 1 // 11 // इत्यनन्तरसूत्रविहितस्य नकारलुको निषेधः क्रियते न तु परंपरैः ‘रात्सः' // 2 / 1190 // इत्यादिपूर्वसूचैर्विहितानां सकारलुगादीनाम् / विधिर्यथा-'क्लीबे' // 2 / 1 / 93 // इत्यनेनानन्तरसूत्रविहितस्य नकारलुको निषेधस्य विकल्पनेन विधिः क्रियते इत्यादि / यद्यपि शब्दशक्तिरेवैषा यद्विधिनिषेधो वाऽनन्तरस्यैव स्यादिति / परं शब्दशक्तेरनुवाद्ययं न्यायो विचित्राः शब्दशक्तय इत्यादिन्यायवत् // 135 // पर्जन्यवल्लक्षणप्रवृत्तिः // 136 // यथा पर्जन्य ऊनं पूर्ण वाऽनपेक्षमाणः सर्वत्र वर्षति तथा स्वविषयं प्राप्य लक्षणेन सर्वत्र फलाभावेऽपि प्रवर्तितव्यमेव / अप्रवृत्तौ हि तस्यानर्थक्यं स्यादिति / यथा गोपायतीत्यादावायादीनामदन्तत्वेन तदन्तधातूनामप्यदन्तत्वात् शवोऽनाकाङ्क्षायामपि 'कर्तर्यनभ्यः' // 3471 // इति शव् सिद्धः। अनित्योऽप्ययम्। 'समानानां तेन // 12 // 1 // इत्यत्राग्रेतनसूत्रसमानव्याप्तिसिद्धयर्थ बहुवचनप्रयोगात् / तथाहि-क्ल ऋषभः, होत लकार इत्यादौ तावद् 'ऋस्तयोः' // शरा५ // इति ऋरेव प्राप्नोति। इष्यते त्वत्र ह्रस्वोऽपीति यावन्तःकेऽपि समानास्तेषां सर्वेषामपि ऋति ह्रस्वः स्यादेवेति व्याप्तिसिद्धयर्थ 'समानानाम्' इत्यत्र बहुवचनप्रयोगः। नित्यत्वे त्वस्य ऋत्ववत् ह्रस्वोऽपि भविष्यत्येवेति किमर्थ बहुवचनम् / परमेतस्यानित्यत्वाद् ह्रस्वस्याबलत्वेन बाधं परत्वात् सबलत्वेन ऋत्वस्यैव प्रवृत्ति संभाव्य तत् // 136 // न केला प्रकृतिः प्रयोक्तव्या // 137 // प्रकृतिर्धातुरूपाऽपि संभवेत् परं धातोः प्रत्ययान्तत्वे विवादाभावेन केवलत्वशङ्काया अभावान्नाम्नस्तु वक्ष्यमाणरीत्या प्रत्ययोत्पादस्य विवादापन्नत्वेन के

Loading...

Page Navigation
1 ... 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254