Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1237
________________ 1224 तथाहि-रोर्यः' इति तावत्सामान्यसूत्रं सर्वरुविषयत्वात् / तदः सेः' इत्येतत्तु तदपेक्षया विशेषसूत्रं सिमात्रविषयत्वात् / 'अतोऽति०' इत्येतत्तूभयोरपि तयोः स्वरसामान्यनिमित्तकयोरपेक्षया विशेषसूत्रम् अकारमात्रविषयत्वात् / इह च 'तदः सेः' इत्यस्य प्राप्तौ सत्यां 'सोरुः' इति सूत्रेणान्तरिता द्वयोः सूत्रयोः प्राप्तिरस्ति / इयं च प्राप्स्यत्तेत्युच्यते सूत्रान्तरप्रवृत्या अन्तरितत्वात् / कथम् / यदि 'तदः से:०' // // 3 // 45 // इति सेर्लुकमकृत्वा परत्वात् 'सोरुः // 27 // 72 // इति रुःकरिष्यते तदा तदनु 'रोर्यः' इत्यस्य सामान्यसूत्रस्य प्राप्स्यत्त्वे सति तदः सेः' इति विशेषसूत्रेण 'सोरुः' इत्यस्य प्रवृत्तिनिरुध्यते / तनिरोधे च परंपरया 'रोर्यः' इत्येतदेव बाधनम् / सोरुः' इत्येतत्प्रवर्तनानन्तरमेव तस्य प्रवृत्तिसंभवात् / 'अतोऽति' इति विशेषसूत्रस्य प्राप्स्यत्त्वे सति तु 'सोरुः' इत्यस्य प्रवृत्तिन निरुध्यते / तदनिरोधेन च परंपरया ' अतोऽति० ' इत्यस्यैव प्रवृत्तिरव्याहतीभूता / तथा च प्रत्युत / अतोऽति' इत्यस्यैव बलिष्ठत्वात् 'सोरुः' इत्यस्य पुरस्करणपूर्व प्रवृत्तमितिकृत्वा सोऽहमिति सिद्धम् / तक्रकौंण्डिन्यन्यायश्चास्यैव न्यायस्य प्रपञ्चः / तथाहि-तर्क देयमस्मै सचासौ कौण्डिन्यश्च तक्रकौण्डिन्यः। मयूरव्यंसकादित्वाद्देयशब्दलोपः। स एव न्यायो दृष्टान्तः। यथा द्विजेभ्यो दधि देयमित्युक्त्वा कौण्डिन्याय तक्रं देयमित्युक्त कौण्डिन्यस्य दधिदाननिषेधोऽनुक्तोऽपि प्रतीयते। तथा यत्र विशेषलक्षणेन विधिना पूक्तिस्य सामान्यलक्षणस्य विधेर्बाधोऽनुक्तोऽपि प्रतीयते तत्रायं न्यायः / यथा 'व्यञ्ज. नादेकस्वराद् भृशाभीक्ष्ण्ये०' // 39 // इति सामान्येन भृशाभीक्ष्ण्ये यऊं विधाय पुनः ‘गत्यर्थात् ' // 3 // 4 // 11 // इति विशेषविधिरुक्तस्तेन गत्यर्थेभ्यो यङ्निषेधोऽनुक्तोऽपि गम्यते / तदेवमत्रापि विशेषेण सामान्यबाध इत्येतावदेव जातं नत्वपरं किंचित् // 130 // डित्त्वेन कित्त्वं बाध्यते // 131 // बलाबलोक्तिन्यायोऽयम् / एवमुत्तरोऽपि। यथा-णूत् स्तवने कुटादिः / नुवितः, प्रणुवितः इत्यत्र ‘उवर्णात् ' // 4458 // इत्यनेन कित्प्रत्ययस्यादौ विहित इनिषेधो नाभूत् / कुटादित्वहेतुकेन क्तस्य ङित्वेन तकित्त्वस्य बाधनात् / ङित्वे. नेति किम् / प्रकृत्य / अत्र यप; पित्त्वेन क्त्वाकित्त्वस्याबाधनाद् गुणाभावः / कित्त्वमिति किम् / ध्रुत् गतिस्थैर्ययोः कुटादिः / क्त्वि-प्रधुत्य / अत्र कुटादित्वहेतुकेन यपो ङित्वेन पित्त्वस्याबाधनाद् तागमः। अनित्यश्चायम् / नूतः प्र. णूतः इत्यादेरपि दर्शनात् / इह च ङित्त्वेन कित्त्वमित्युपलक्षणम् / तेनान्यत्रापि धात्वादीनां पूर्वावस्थानुबन्ध उत्तरावस्थानुबन्धेन बाध्यते / तत्र धातोर्यथा-चक्ष्यादेशस्य ख्यागो गित्वेन प्राक्तनेदित्त्वस्य बाधनात् धात्वादेशो धातुवदिति स्थानिवद्भावेन प्रसक्तस्यापि नित्यात्मनेपदित्त्वस्य निवृत्त्या उभयपदित्वं सिद्धम्। यथा आचख्यौ, आचख्ये / प्रत्ययस्य यथा-युतात् / अत्र लातङो ङित्वेन तुवो विस्वस्य बाधनात् 'उत और्विति व्यञ्जनेऽद्धेः // 4 // 3 // 59 // इति और्नेत्यादि /

Loading...

Page Navigation
1 ... 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254