Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1240
________________ 1227 वलत्वशंकासद्भावान्नामरूपैव प्रकृतिरिहाधिक्रियते। यथा कटं करोति भीष्ममुदार दर्शनीयमित्यत्र यद्यपि कटरूपस्य द्रव्यस्यैव क्रियायां साक्षादुपयोगात् कटस्यैव कर्मत्वं युज्यते नतु भीष्मादीनां किमपि, तथाप्येतन्न्यायकृतनियमेन भीष्मादीनामविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद्यथेश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वाद्धनेनैव फलभाक्त्वं स्यादेवमेषामकर्मकाणामपि कटकर्मत्वेनैव द्वितीया सिद्धा / विशेषणानां विशेयसमानविभक्त्युपपादनार्थोऽयं न्यायः // 137 // किबथै प्रकृतिरेवाह // 138 // यथा त्वां मां चाचक्षाणेन इति णिजि, विपि, तल्लुकि च युष्म् अस्म् इति मान्ताद्डौ 'टायोसि० // 217 // इत्यनेन मस्य प्राप्तं यत्वं बाधित्वा परत्वात् त्वमादेशे पश्चाश्च त्वमयोरकारस्य प्राप्नुवतोऽपि यत्वस्य सकृद्गते स्पर्द्ध इतिन्यायादभवने, युष्मदस्मदोश्चात्र णिक्विवन्तत्वेन सर्वादित्वाभावात् स्मिन्नादेशाभावे त्वे मे इति स्यात् इत्येष प्रकृतन्यायानपेक्षः पक्षः / यदा तु क्विबर्थ प्रकृतिरेवाहेति न्यायः प्रयुज्यते तदा स्मिन्नादेशोऽपि स्यात् / तथाहि-अस्यार्थस्तावदयम् / विबन्तयोर्युष्मदस्मदोर्योऽर्थस्तमर्थ क्विरहिता युष्मदस्मद्रूपा प्रकतिरेवाह / नहि प्रकृति विना क्विव् भवतीति / एतेनायं भावः-यथा अगुडित इव गुडितोऽपि गजो गज एवोच्यते / नहि गजं विना गुडना भवति / तथा केवलाविव णिक्विबन्तावपि युष्मदस्मच्छब्दौ तावेवोच्येते न त्वपरं किञ्चित् / एवं च केवलयोस्तयोः सर्वादित्वमस्तीति कृत्वा णिक्विवन्तयोरपि सर्वादित्वं विवक्ष्यते / न चात्र शब्दभेदस्यार्थभेदस्य च साक्षादेव लक्ष्यमाणत्वात् अयुक्तैवेयं विवक्षेति वाच्यम्। सिद्धिः स्याद्वात् इति सूत्रेणाभिन्नानामपि भेदविवक्षाया भिन्नानामप्यभेदविवक्षायाश्चाभ्यनुज्ञानात् / कथमन्यथा पीयमानं मधु मदयतोत्यत्रैकस्यैव मधुनःकर्मत्वं कर्तृत्वं चेत्याद्युपपद्यते / ततो यथा मधुनो अभेदेऽपि भेदविवक्षा, तथाऽत्र भेदेऽप्यभेदविवक्षा / ततश्च णिक्विन्तयोर्युष्मदस्मदोः केवलाभ्यां ताभ्यां सहाभेदविवक्षया सर्वादित्वाद् : स्मिन्नादेशे त्वस्मिन् मस्मिनित्यपि स्यात् / एवं च णिज्क्विबन्तयोर्युष्मदस्मदोः शब्दभेदादर्थमेदाचाप्राप्तस्य सर्वादित्वस्य प्रापणार्थोऽयं न्यायः // 138 // द्वन्द्वात्परः प्रत्येकमभिसंबध्यते // 139 // शब्द इति शेषः / यथा 'एकद्वित्रिमात्रा हस्वदीर्घप्लुताः' // 215 // इत्यादौ मात्राशब्द एकद्वित्रीतिद्वन्द्वात्परः सन्नेकाद्यैः सह प्रत्येकं संबध्यते / अन्यथेष्टार्थप्रतीतिर्न स्यादित्यतोऽयं न्यायः // 139 // विचित्राः शब्दशक्तयः // 140 // - तेनैव लिङ्गसंख्यादौ वैचित्र्यं दृश्यत इति ज्ञापनार्थोऽयं न्यायः / यथा-प्रशस्तं पचतीति 'त्यादेश्च प्रशस्ते रूपप्' // // 3 / 10 // इति स्वार्थिके रूपपि

Loading...

Page Navigation
1 ... 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254