Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1235
________________ 1222 अत्रेति वाक्याङ्गभूतपदसमुदाये इति विशेष्यमध्याहार्यम् / अस्तिना च भवतिर्विद्यतिरित्यादयोऽपि लक्ष्याः एकार्थत्वात् / भवन्तो वर्तमाना। उपलक्षणत्वात् प्रकरणादिवशात् सप्तम्यादिपरोऽपि प्रयुज्यते इति / आख्यातपदरहितत्वेन वाक्यत्वरहितस्य पदसमुदायस्य वाक्योकरणार्थमस्तोत्याद्याख्यातपदमवश्यप्रयोक्तव्यमाख्यातपदस्यैव वाक्यसंशोक्तेस्तद्विना वाक्यत्वस्याभवनादित्यर्थः। कश्चित् क्रियापदं साक्षाददृष्ट्वा वक्ष्यमाणोदाहरणेषु वाक्यत्वाभावमाशङ्किष्यते इत्यतस्तदाशंकानिरासार्थोऽयं न्यायः / तत्र भवन्ती यथा-जम्बूद्वीपस्तत्र वर्षाणि / अत्रास्ति, सन्तीति / सप्तमो यथा-'शिघुट' // 2 // 28 // 'औदन्ताः स्वराः, // // 14 // अत्र स्यात् , स्युरिति / पञ्चम्याशिषौ यथा-देवो मुदे वो वृषभः परे च / अत्रास्तु, सन्त्विति, भूयाद् भूयासुरिति वा / ह्यस्तन्यद्यतनीपरोक्षा यथा-अवन्त्यां विक्रमनृपस्तस्य द्वापञ्चाशद्वीराः। अत्रासीदासन्निति / अभूदभूवन्निति; बभूव बभूवुरिति वा / श्वस्तनी यथा-अतः परं श्वो भोजनम् / अत्र भवितेति / भविष्यन्तो यथा-अद्य नश्चतुर्पु गव्यूतेषु भोजनम् / भाविन्यां तु पद्मनाभः सूरदेव इति / अत्र भविष्यति, भविष्यन्तीति / क्रियातिपत्तिप्रयोगस्तु प्रायः साक्षादेवेष्यते / शापकमस्य तदस्य पण्यम्' // 6454 // इत्यादिसूत्रनिर्देशः। अत्र ह्यस्तोति क्रियापदमस्त्येव / अन्यथा अर्थसंगत्यभवनात् / एवं सत्यपि यदस्तीति साक्षान्नोक्तं तदेतन्न्यायाशयैव / अनित्यत्वमप्यस्य / तेन क्वचिदन्यक्रियाऽध्याहारेऽपि / यथार्हम् / अत्र प्रणिदध्महे इति // 124 // यदुपाधेविभाषा तदुपाधेः प्रतिषेधः // 12 // इट इति शेषः / उपाधिर्व्यवच्छेदकं विशेषणमिति यावत् / यद्विशेषणविशिष्टस्य धातोः प्रत्ययस्य वा इटो विभाषा विकल्पस्तद्विशेषणविशिष्टस्यैव तस्य 'वेटोऽपतः॥४४॥६२॥ इतीनिषेधः कार्यो न तु तद्विशेषणाभावे / इष्टनियमार्थोऽयं न्यायः / यथा 'गमहनविद्ल० // 4 / 4 / 83 // इत्यनेन विलंती लाभे इत्यस्यैव वेट्त्वाद्विदक् ज्ञाने इत्यस्य क्तयोः परयोः 'वेटोऽपतः 'इतीनिषेधो न, किंतु नित्यमेवेट् / यथा विदितः, विदितवान् / ज्ञापकमस्य 'आदितः' // 4 / 4 / 71 // 'नवा भावारंमे' // 4472 // इत्यनयोः पृथक्वत्रकरणम् / तथाहि-आदितो नवा भावारंमे इत्येकयोगकरणेऽपि तावदादितां धातूनां भावारंभार्थक्तयोः परयोर्वेटत्वेन पारिशेष्यात् कर्तृकर्मादिविहितयोः क्तयोः 'वेटोऽपतः' इतीनिषेध: सिद्धयति / परं भावारंभे एव वेट्त्वादेतन्न्यायबलेन भावारंभविहितयोरेव क्तयोरिनिषेधः न तु कर्तृकर्मादिविहितयोस्तथा च साक्षाद्विरोधः। कथम् / आदितो नवा भावारंभे इत्यनेन आदितां भावारंभार्थ क्तयोरिड्विकल्प्यते / वेटोऽपतः // 4 / 4 / 62 // इत्यनेन च भावारंभार्थक्तयोरेव च स निषिध्यते / पृथग्योगकरणे तु कर्तृकर्मादिविहितयोः क्तयोरिनिषेधः आदितः 'आदितः' इत्यनेन सिद्धो भावारंभविहितयोस्तूत्तरेण तद्विकल्प इति व्यवस्थितत्वात् 'बेटोऽपतः' // 4 / 4 / 62 // इत्यस्य कचिदप्यादिद्धातुष्ववकाशाभा

Loading...

Page Navigation
1 ... 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254