Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1991 इत्यल्लोप एव / ज्ञापकमस्य तत्र तत्र ‘कर्तस्था०' इति सूत्रे लोपात्स्वरादेशः इति न्याये च यथाक्रमं शमयत्यर्थस्य नयतेरिति दीर्घवर्जः स्वरादेश इति च विशेषणस्थानुक्तिरेव / अनित्यश्चायम् / 'इदमदसोऽक्येव' // शा४३॥ इत्यत्रानिष्टनियमापोहार्थमेवकारप्रयोगात् / 'इदमदस' इत्यस्य नियमसूत्रमात्रत्वं तु एवकारं विनापि सिद्धयति / यथा-इमकैः अमुकैः इत्यत्र 'भिस ऐस् // 142 // इत्यनेनैव ऐसि सिद्ध नियमार्थमिति / परमत्र द्वौ नियमौ संभवतः। इदमदस एवाकि भिस ऐस् न त्वन्यशब्देभ्यः इत्येकः। इदमदसोऽक्येव सति भिस ऐस न त्वकोऽभावे इत्यन्यः / तत्राद्योऽनिष्टस्तकविश्वकैरित्यादावपि ऐसो दर्शनात् / द्वितीयस्त्विष्ट एभिरमीभिरित्यत्रादर्शनात् / तत एतदर्थमेव अक्येवेत्येवकारः प्रयुज्यते / एतन्न्यायस्य नित्यत्वे तु अनिष्टनियमापोहन मिष्टनियमग्रहणं चैतन्न्यायेनैव सेत्स्यतोति कुतस्तदर्थमेवकारप्रयोगः // 58 // .. प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् // 19 // अत्र प्रकृतिर्धातुरूपा नामरूपा च गृह्यते / स्वार्थिकप्रत्ययान्तानामिति प्रकृ. तीनामिति शेषः / प्रकृतीनां केवलत्वे स्वार्थिकप्रत्ययान्तत्वे च बहुः शब्दभेदः स्यादिति शब्दभेदादन्यस्य कथनेऽन्यग्रहणं न प्राप्नोतीत्ययं न्यायः। तत्र धातुरूपा प्रकृतिर्यथा-'विनिमेयद्यूतपणं पणिव्यवहोः' // 22 // 16 // इत्यत्र पणीत्युक्तेः केवलस्यैव पणेर्ग्रहणं प्राप्नोति तथापि स्वार्थिकायप्रत्ययान्तस्यापि स्यात् / तेन शतस्य शतं वा अपणिष्टेत्यादाविव शतस्य शतं वा अपणायीदित्यत्रापि 'विनिमेय०' इत्यनेन वा कर्मत्वम् / नामरूपा यथा-ग्रामात् परस्मिन् देशे वसतीत्यादौ केवलपरशब्दयोगे इव ग्रामात् परस्ताद्वसतीत्यादौ स्वार्थिकस्तात्प्रत्ययान्तपरशब्दयोगेऽपि 'प्रभृत्यन्यार्थ' // 222175 // इति दिग्योगलक्षणा पञ्चमी। शापकमस्य सर्वादिगणे नियमार्थ डतरडतमोपादानम् / प्रत्ययानां केवलानां सर्वादित्वासंभवात् प्रत्ययः प्रकृतिमाक्षिपतीति कृत्वा येभ्यः स्वार्थिको डतरडतमौ संभवतस्ते यदादिशब्दा डतरडतमान्ता इह डतरडतमाभ्यां गृह्यन्ते इत्येतदर्थ तत् नियममपि करोति यथा-सर्वादीनां स्वार्थिकप्रत्ययान्तानां प्रकृतिसर्वादित्वद्वारेण यदि सर्वादित्वं स्यात्तर्हि डतरडतमान्तानामेव स्यान्नत्वन्यस्वार्थिकप्रत्ययान्तानाम् / तेन प्रकृष्टार्थे स्वार्थिकतमपि सर्वतमाय सर्वतमादित्येव स्यात् / इत्थं चान्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थ डतरडतमग्रहणयत्नस्तदैव कर्तुं युज्यते यदि सर्वस्वार्थिकप्रत्ययान्तानां सर्वादित्वप्राप्तिः केनापि प्रसक्ता स्यात् / सा चैतन्यायसत्व एव संभवति नान्यथा / अनित्यश्चायम् / पणायतीत्पादौ पणिधातोरिदित्वेऽप्यात्मनेपदाभावात् / अनित्यत्वे ज्ञापकं तु कामयते इत्यत्रात्मनेपदार्थ णिङो ङित्वं क्रियते // 59 // प्रत्ययाप्रत्यययोः प्रत्ययस्यैव // 60 // ग्रहणमिति संबध्यते / यत्र विवक्षितशब्दः प्रत्ययरूपोऽप्रत्ययरूपश्च संभ
Loading... Page Navigation 1 ... 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254