Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1228
________________ 1215 दिचतुर्थत्वंप्राप्नोति। तत्करणे च धद्ध्व इति रूपं स्यात्तनमाभूत् किंतु प्रत्ययग्रहणबलानन्यायानपेक्षो यः प्रत्ययस्तत्रैव परे आदिचतुर्थत्वं स्तादिति ज्ञापनार्थ हि 'गडदबादेः' इत्यत्र प्रत्ययशब्दग्रहणम् / एतन्न्यायाभावे ध्वस्य कथमपि प्रत्ययत्वानापत्त्या तस्मिन् परे दव इत्यत्रादिचतुर्थस्य प्रसङ्गोऽपि नास्तीति किमर्थ प्रत्ययग्रहणेन न्यायानपेक्ष एवं प्रत्ययोऽत्र गृह्यत इति ज्ञापनम् / अस्यानित्यत्वमपि / तेन राजानमाख्यदरराजदित्यत्रान्त्यस्वरादिलोपस्य अन्रूपस्वरव्यञ्जनोभयस्थानजत्वेऽपि स्वरादेशतैव व्यपदेश्या नतु व्यञ्जनादेशता। तद्यपदेशे हि असमानलोपित्वादुपान्त्यहस्वस्य सन्वद्भावादेश्च सिद्धावरीरजदिति स्यात् // 109 // अवयवे कृतं लिङ्ग समुदायस्यापि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति // 110 // अप्राप्तप्रापणार्थोऽयं न्यायः / यथा 'कुस्मिण स्मयने' इत्यस्मात् 'चुरा दिभ्यः' // 3 / 4 / 17 // इति णिचि कुस्मयते। चित्रशब्द आश्चर्यार्थ डिन्त; ततश्चित्रं करोति इति वाक्ये 'नमोवरिवश्चित्रो० // 34 // 37 // इति क्यनि चित्रीयते / महीङ् पूजायाम्-कण्ड्वादिः अस्मात् 'धातोः कण्ड्वादेर्यक्' // 348 // इति यकि महीयते इत्यादौ कुस्मिणचित्रङ्महोडामिङित्वेन णिच्क्यन्यगन्तसमुदायस्यापीडित्वादात्मनेपदम् / कुस्म्यादीनां णिचाद्यन्तसमुदायेन सममव्यभिचारित्वात् / चेत्तं समुदायमिति किम् / कुस्मयति, चित्रीययति, महीययतीत्यादौ कुस्यादीनामेव णिच्क्यन्यकामागमनादनु प्रयोक्तृव्यापारार्थसंजातणिगन्तीकृतानां समुदायादिङित्वहेतुकमात्मनेपदं मा भूत् / णिगः प्रयोक्तृव्यापारे सत्येवोत्पत्तेः। कुस्म्यादीनां णिगन्तसमुदायव्यभिचारित्वात् / ज्ञापकमस्य कुस्म्यादीनामिङित्करणमेव / एतन्न्यायाभावे ह्यात्मनेपदाभवनेन निष्फलत्वादिङित्त्वं कुर्यादेव न / अनित्यत्वमस्य नास्ति // 110 // येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः // 111 // तदन्यधात्वादियोगे उपसर्गकार्य न स्यादित्यर्थः / यथा प्रगता ऋच्छका यस्मात् स प्रर्छको देशः-इत्यादौ प्रस्य गमिना सह संबंधाद् गर्मि प्रत्येवोपसर्गत्वं नतु ऋच्छि प्रति / तेन प्रावर्णस्य 'ऋत्यारुपसर्गस्य' // 1 / 2 / 9 // इत्यानं / ज्ञापकमस्य ऋत्यारिति सूत्रे उपसर्गस्येत्युक्तिरेव / एतन्न्यायाभावे प्रार्छको देश इत्यादावप्यार प्राप्नोति / यदि च तथेष्टं स्यात्तदा लाघवार्थ प्रादेरित्येव निर्दिश्येत / येनोपसर्गसंज्ञस्यानुपसर्गसंज्ञस्य च चादिगणप्रान्तस्थितप्रादिगणस्य संबन्धिनो वर्णस्याविशेषेण ऋदादिधातावार सिद्धयेत / एवं सत्यपि यदुपसर्गस्येति गुरुनिर्देशः स एतन्न्यायात् प्रर्छको देश इत्यादावानिषेधार्थमेव / अनित्यश्चायम् / उत्तरेण बाध्यमानत्वात् // 11 // यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन पादयो लक्ष्यन्ते नतु, संभवत्युपसर्गत्वे // 112 //

Loading...

Page Navigation
1 ... 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254