Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 1229
________________ 1216 पूर्वापवादोऽयम् / यथा प्रगतोऽध्वानं प्राध्वो रथ इत्यादौ प्रस्यानुपसर्गत्वेऽपि 'उपसर्गादध्वनः' // 73 // 79 // इत्यत् समासान्तः / न ह्यत्राध्वशब्दसंबद्धस्य प्रस्य कथमप्युपसर्गत्वं संभवति, उपसृत्य धातुमर्थविशेष सृजतीत्युपसर्ग इत्यन्वर्थाश्रयणात् / प्राध्व इत्यत्र धातुसंबन्धपरिहारेण नामसंबन्धस्यैव दृश्यमानत्वात् / ज्ञापकमस्य अध्वनः प्रागुपसर्गासंभवेऽपि उपसर्गादित्युक्तिः / सा हि एतन्न्यायज्ञापनार्थमेव / अन्यथा लाघवार्थ प्रादेरित्येवोच्येत / अनित्यत्वमस्य न दृश्यते // 12 // शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः // 113 // आदिशब्दाद् धर्मसाध्वर्थयोर्ग्रहणम् / शीलादिप्रत्यये अपवादे विषयभूते सत्यपवादे नासमानरूपो ' असरूपोऽपवादे' // 5 // 1 // 16 // इति सूत्रप्राप्तोऽप्यौत्सर्गिकः शीलाद्यर्थप्रत्ययो न स्यादित्यर्थः। प्राप्तप्रतिषेधार्थोऽयं न्यायः। एवमुत्तरोऽपि / यथा अलङ्करिष्णुः कन्यामित्यादौ 'भ्राज्यलंकृग्निराकृग् // 5 / 228 // इति इष्णुरेव स्यान्नतु 'तृन्शीलधर्मसाधुषु० // 5 / 2 / 27 // इति तृन् / तेन शीलाद्यर्थे अलङ्कर्ता कन्यामित्यादिप्रयोगो न साधुः / ज्ञापकमस्य पद्यतेरिदित्त्वात् 'इङितो व्यञ्जनाद्यन्तात् // ५ारा४४ // इत्यनेनैवाने सिद्धेऽपि 'भूषाक्रोधार्थ' // 5 / 2 / 42 // इत्यनप्रत्ययसूत्रे चेन पदोऽनुकर्षणम् / पतन्न्यायाभावे पदेरिदित्वात् 'इङितः' इत्यनेनैवानस्य सिद्धत्वात् 'भूषाक्रोधा०' इत्यत्र चेन पद् किमर्थमनुकृष्येत / अनित्यश्चायम् / तेन शीलाद्यर्थे 'शूकमगमहनवृषभूस्थउकण ' // 5 / 040 // इत्युकण्प्रत्यये आगामुक इत्यादिवत् 'तृन् शील०' // 5 // 2 // 27 // इत्यनेन तृनि आगन्तेत्याद्यपि स्यात् / अनित्यत्वे ज्ञापकं तु दीप्र इत्यत्र 'स्यजसहिंसदीपकम्पकमनमोरः // 5 // 1 // 79 // इति रैणैवाननिषेधे सिद्धेऽपि 'नणिङ्यसददोपदीक्षः ' // 5 / 2 / 45 // इत्यननिषेधसूत्रे दीपिग्रहणम् / दीप्र इत्यत्र 'इङितो व्यञ्जन०' // 5 / 2 / 44 // इति प्राप्तोऽप्यनः 'स्यजसहिंस०' इति रैणैव बाधितत्वान्न भावी; ततो न णिङ्य०' इत्यननिषेधसूत्रे किमर्थ दीपिग्रहणं क्रि. यते / न च 'असरूपोऽपवादे' इत्यनुज्ञानादौत्सर्गिकोऽनोऽपि स्यादिति वा. च्यम् / एतन्न्यायेन तदनुशाया निषेधात् / यदि परमेतन्न्यायस्यानित्यत्वाच्छीलादिप्रत्ययेष्वपि क्वचिदसरूपविधेरनुशासंभवाद् रप्रत्यये अनप्रत्ययोऽपि स्यादित्याशंक्य 'न णिङ् य० ' इत्यत्र दीपिग्रहणसार्थक्यम् / एतन्न्यायस्यायमर्थः-शीलादिप्रत्ययेषु विषयभूतेष्वर्थसामान्यविहितः कृत्प्रत्ययोऽसरूपोत्सर्गविधिना प्राप्तोऽपि न स्यात् / तेन शीलाद्यर्थेऽलङ्करिष्णुरित्यादौ ' भ्राज्यलग्० " // 5 / 2 / 28 // इति विहितस्य इष्णुप्रत्ययस्य विषयेऽर्थसामान्यविहितत्वात् प्राप्तोऽपि ‘णकतृचौ' // 5 / 1 / 48 // इति णको न स्यात् / तेन शीलाद्यर्थविवक्षायामलङ्कारक इत्यादिप्रयोगो न साधुः / ज्ञापकमत्र परिवादक इत्यस्यार्थसामान्यविहितेन ‘णकतृचौ' इति णकेन सिद्धावपि 'वादेश्च णकः' // 52 / 67 // इति शीलाद्यर्थणकविधानम् / यदि हि शीलाद्यर्थेषु तृन्नादिप्रत्ययविषयेऽर्थसामान्य

Loading...

Page Navigation
1 ... 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254