Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1219 शापकमस्य तत्रैव सूत्रे स्वाविति / तत्स्वाविति विशेषणं तावद्विवचनेनानुस्वारस्यानुनासिकस्य च संबन्धितम्। तत्र चानुस्वारः कस्यापि स्वो न स्यादित्यतस्तस्यैतद्विशेषणमसंभवि / अनुनासिकस्तु स्वोऽप्यस्वोऽपि च स्यादित्यतः संभवित्वायभिचारित्वाच्चैतन्न्यायेन तस्यैवैतद् विशेषणं सार्थकम् / सत्यप्येवं यद् द्विवचनेनोभयोरपि निर्दिष्टं तदुभयोः संबन्धनेऽप्येतन्न्यायात् स्वयमेवानुनासिकस्यैव संभन्त्स्यत इत्याशयैव / अस्य न्यायस्यानित्यत्वाच्च द्वे ब्रह्मणी वेदितव्ये, इत्यादौ द्विवचनप्रयोगान्यथानुपपत्या ब्रह्मणोद्वित्वव्यभिचाराभावेऽपि द्वे इति विशेषणम् // 117 // सर्व वाक्यं सावधारणम् // 118 // एवस्याप्रयोगेऽपि सर्ववाक्येष्वेवोऽवधारणार्थो लभ्यत इत्यर्थः / 'सिद्धिः स्याद्वात् ' // 1 / 1 / 2 // इत्युक्त्या सर्वत्र स्याद्वादाश्रयणे प्रसक्तेऽपि क्वचिदेव स्याद्वादः श्रयितव्यो न तु सर्वत्रेति ख्यापनार्थोऽयं न्यायः। यथा 'समानानां तेन." // 11 // इत्यत्र दीर्घः स्यादेवेति वाक्यस्यावधारणाद् दण्डाग्रमित्यत्र दीर्घोऽभूदेव / ज्ञापकं तु "ऋलति ह्रस्वो वा' // 122 // इत्यादौ विकल्पोक्तिः। एत. न्यायाभावे तावद् ह्रस्वः स्यादित्येतावत्युक्ते ह्रस्वः स्याच्च नवा / 'विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने' // 5 / 4 / 28 // इति सूत्रेण कामचारेऽपि सप्तम्या विहितत्वात् / तथाच विकल्पोक्तिं विनाऽपि स्वयं द्वैरूप्यसिद्धेः किमर्थ विकल्पः क्रियेत। परं ह्रस्वः स्यादित्यप्युक्ते एतन्न्यायाद् ह्रस्वो नित्यमेव भविष्यतीत्याशक्य विकल्पार्थ वेति वचनम् / उपलक्षणत्वात् क्वचित्पदमपि सावधारणम् / यथा 'लुगस्यादेत्यपदे // 2 / 1 / 113 // इत्यत्रापदे एवेत्यपदादिस्थे एवाति परे इत्यवधारणाद् दण्डायमित्यत्र 'वृत्यन्तोऽसषे' // 1 / 1 / 25 // इति वृत्त्यन्तस्य पदत्वनिषेधेनाग्रशब्दस्य पदत्वाभावात्तस्याकारे परे प्राप्तोऽप्यल्लुग न स्यात् / यतोऽग्रशब्दस्य यद्यपि वृत्त्यवस्थायां वृत्त्यन्तत्वाद् 'वृत्त्यन्तोऽसषे' // 1 / 1 / 25 // इत्यनेन पदत्वनिषेधात् पदत्वं नास्ति परं यदा वृत्तेः पूर्व पदत्वमासीत्तदाऽयमकारः पदादिस्थोऽप्यासीदित्यतोऽपदादिस्थे एवेत्यवधारणं भग्नमिति / यस्त्वेकान्तेनापदादिस्थ एवाकारस्तस्मिन् परे लुगस्येत्यल्लुक् स्यादेव / यथा पचन्तीत्यत्र शवोऽकारस्य अन्तिस्थे अकारे परे लुक् / आपादिका चास्यापद् इत्यनवधारणोक्तिः। सा ह्येतन्न्यायात् स्वयमेवावधारणं लप्स्यते इत्याशयैव कृता। अस्यासामर्थ्यसमर्थकं तु द्विर्बद्धं सुबद्धमिति न्यायः। यदि तावत् सर्व वाक्यं सावधारणमेव स्यात्तदा सकृबद्धं सुबद्धमेवेति किमर्थ द्विर्बध्येत / यत्तु केचिद्विधयो द्विर्बद्धास्तत्तत्तद्वाक्यानामनवधारणत्वादेव // 118 // द्वौ नौ प्रकृतमर्थ गमयतः // 119 // नावित्यर्थप्रधानो निर्देशस्तेन द्वौ निषेधौ निषेधद्वयस्य प्रयोगात् पूर्व यः स प्रकृतोऽर्थो विधिरूपस्तं ब्रूतः। यथा 'न नाम्येकस्वरात्' // 32 // 9 //
Loading... Page Navigation 1 ... 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254