Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1218 खलेव / सक्तवो धीयन्तेऽस्यामिति सक्तुधानी इत्यादौ 'स्त्रियांक्तिः, ‘करणाधारे' // 53 / 129 // इत्याभ्यां क्रमात् स्यनटोः प्राप्तौ परत्वादनडेव / 'स्पर्द्ध' // 74 / 119 // इति परिभाषायाः प्रपञ्चोऽयम् / ज्ञापकमस्य एषां व्यवस्थायै यनान्तराकरणम् / अनित्यश्चायम् / तेन जय इत्यादौ स्त्रियांक्तिः' 'युवर्ण०' इत्याभ्यां कंमात् श्यलोः प्राप्तावलेघ / शिरसोऽर्दनं शिरोऽतिरित्यादौ च अर्दतेः 'स्त्रियांक्तिः' 'अनड्' // 5 // 3 // 124 // इत्याभ्यां क्रमात् ख्यनटोः प्राप्तौ ख्येव // 115 // यावत्संभवस्तावद्विधिः // 116 // यथाप्राप्तस्य सूत्रस्य न्यायस्य वा यावतो वारान् प्रवृत्तेः संभव इति कोऽर्थः? अव्याहता प्राप्तिः स्यात्तावतो वारांस्तस्य प्रवृत्तिः कार्यव / नत्वेकवारमस्य प्रवृत्तिः कृतेति बुद्धयाऽधिकवारसंभवे सत्यपि तत्प्रवृत्तिर्न क्रियत इति / यदा च. संभवो व्याहतस्तदनु तत्प्रवृत्तिर्न कार्यैवेत्यस्यार्थस्य ख्यापनार्थोऽयं न्यायः / तत्र सूत्रस्य यथा-त्व- इत्यादौ प्रथमं विरामे परे ' अदीर्घात्" // 1 / 3 / 32 // इत्यनेन कस्य द्वे रूपे क्रियेत / यथा त्वक् / पुनरनेनैव एकव्यञ्जने परे सूत्रप्रवृत्तेः संभवस्य सद्भावादाधकस्य द्वे रूपे क्रियेते / यथा स्वक्छ / ततः परं तु मध्यमकस्य 'धुटो धुटि स्वे वा' // 1 / 3 / 48 // इति लुकि पुनराद्यकस्य 'अदीर्घात्' इति द्वे रूपे प्राप्नुतः परं न क्रियेते / तथाकरणे क्रियाऽनुपरमप्रसङ्गाद्यं विधि प्रतीति न्यायेन व्यर्थनिषेधेन प्रवृत्तः संभवस्य व्याहतत्वात् / न्यायस्य यथा-ब्रूगः कृतवचादेशस्य प्रण्यवोचतेत्यादौ भूतपूर्वकन्यायस्य प्रथमवारं प्रवर्तनेन वोचस्य वचत्वोपचाराद् द्वितीयवारं प्रवर्त्तनेन बचस्यापि ब्रूत्वोपचारात् तस्मिन् परे ‘अकखादि० // 2 / 3 / 80 // इत्यनेन नेणिः / 'शापकमस्य य्वृत्सकृत् ' इति सूत्रम् / तद्धि व्यग् संवरणे इत्यस्य ‘आत्संध्यक्षरस्य' // 4 / 2 / 1 // इति कृतात्वस्य क्ये संवीयते इत्यादावेकवारं 'यजादिवचेः // 4 / 1 / 79 // इत्यनेन या इत्यस्य वृति वि इति जाते पुनस्तस्यैकदेशविकृतजातेन यजादित्वस्यैव सद्भावात् 'यजादि०' इति प्राप्तवृन्निषेधार्थम् / एतन्न्यायाभावे एकवारं य्वृत्सूत्रं प्रवृत्तमिति द्वितीयवारं प्रवृत्तिसंभवे अव्याहतेऽपि प्रागेव चरितार्थीभूतत्वात् स्वयमेव न प्रवय॑तीति किमर्थं तनिषेधः ? / अनित्यता त्वस्य नास्ति // 116 // संभवे व्यभिचारे च विशेषणमर्थवत् // 117 // .. यत्र विशेष्ये विवक्षितविशेषणस्य न संभवो नापि संभवासंभवरूपो व्यभिचारस्तत्र तद्विशेषणोपन्यासो न कार्यो व्यर्थत्वादित्यर्थः। यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते इति न्यायस्यायं प्रपञ्चः / अनेनापि व्यर्थविशेषणोपन्यासविधेरेव निषिध्यमानत्वात् / यथा 'तौ मुम०' // 13 // 14 // इत्यत्र पदान्त इति विशेषणं म्वागमस्य न योज्यते असंभवात् / मस्य तु योज्यते / त्वन्तरसीत्यादौ संभवेन रंरम्यत इत्यादावसंभवेन च पदान्तस्थत्वस्य व्यभिचारत्वात् /
Loading... Page Navigation 1 ... 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254