Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ प्राग्वदन्तरङ्गत्वाद् विभक्त्युत्पत्तेः प्रागेवापः प्राप्तावदन्तत्वाभावाद् ङीन स्यात् / कृत्प्रत्ययविधायिसूत्रे उसिनेत्येकदेशस्य समुदायोपलक्षणत्वेन संपूर्णपञ्चमीलाभोत् 'विशेषणमन्तः' // 74 / 113 // इति परिभाषयाऽन्तशब्दलाभाच्च पञ्चम्यन्तेन पदेनोक्तं ङस्युक्तम् / तत्र कुसिनैवोक्तस्य यथा-कच्छं पिबतोति कच्छपी इत्यादौ कच्छ अम् प इति स्थिते 'नाम्नो गमः खड्डौ च० // 5 / 1 / 131 // इत्यतोऽधिकृतान्नाम्नः परस्य स्थाधातोविहितो यः 'स्थापास्नात्रः कः' // 51142 // इति कप्रत्ययस्तदन्तेन पेत्यनेन सह कच्छशब्दस्य 'ङस्युक्तं कृता' // 31 // 42 // इति तत्पुरुषः। कच्छशब्दस्य नाम्न इति सिनोक्तत्वात् / ततः स्त्रीत्वविवक्षायां 'जातेरयान्त०' // 24 // 54 // इत्यनेन कच्छपशब्दाददन्ताद ङोः सिद्धः। विभक्त्यन्तेन पेत्यनेन समासे तु प्राग्वदापः प्राप्तावदन्तत्वाभावाद् डोर्न स्यात् / पञ्चमीभ्यसोक्तमप्युक्तयुक्त्या डस्युक्तमेव / तस्य यथा-विषं धरतीति विषधरी इत्यादी विष अम् धर इति स्थिते विषशब्दस्य 'आयुधादिभ्यो०' // 5 / 194 // इति सूत्रे आयुधादिभ्य इति भ्यसोक्तस्यापि ङस्युक्तत्वादच् प्रत्ययान्तेन धरेत्यनेन सह 'उस्युक्तं कृता' इति तत्पुरुषः। ततः त्रीत्वविवक्षायां 'जातेरयान्त.' इति ङीः। विभक्त्यन्तेन धरेत्यनेन समासे तु पूर्ववददन्तत्वाभावाद् ङोर्न स्यात् / ज्ञापकमस्य कारकांशे 'क्रीतात्करणादेः' इत्यनेनादन्तात् क्रीताद् ङीविधिः / अत्र तावत्करणादेः क्रीतादित्युक्तम् / करणस्य आद्यवयवत्वं च समासं विना न स्यात् / एतन्न्यायाभावे विभक्त्यन्तेन क्रीतेत्यनेन समासे अन्तरङ्गत्वाद् विभक्त्युत्पत्तःप्रागेवापःप्राप्तौ क्रीतस्याददन्तत्वं न संभवति तथापि यददन्तादित्युक्तं तदिमं न्यायांशं ज्ञापयति / गतिङस्युक्तांशयोस्त्वस्य ज्ञापकं विष्किरी, कच्छपीत्यादौ ङीप्रतिबन्धकाग्निषेधयत्नाकरणम् / अनित्यता त्वस्य न दृश्यते // 91 // . समासतद्धितानां वृत्तिविकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः // 12 // ____ अयमर्थः-परार्थाभिधानं वृत्तिः / सा च त्रेधा / समासवृत्तिस्तद्धितान्तवृत्तिर्नामधातुवृत्तिश्च / यथा राजपुरुषः, औपगवः, पुत्रकाम्यतोति / तत्र समासवृत्तौ समस्यमानपदानि शेषवृत्त्योस्तु प्रकृतिप्रत्ययौ संभूय समुदायार्थ सह ब्रुवन्तीतिरीत्या परस्थान्यर्थस्य-स्वार्थातिरिक्तस्य समुदायार्थस्य यदभिधानं सा वृत्तिः / तत्र वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा येन नाप्राप्ते इति न्यायाद्वाक्यस्य बाधिका प्राप्नोति इति बिकल्पेन तस्यानुज्ञा अनेन न्यायेनोच्यते। तथा वृत्तिपक्षे उत्सर्गापवादरूपयोवृत्योः संभवे उत्सर्गस्य नित्यमेव बाधश्चानेन न्याये. नोच्यते / तत्र समासवृत्तिर्यथा-कायस्य पूर्वोऽशः पूर्वकायः / अत्र 'पूर्वापराधरो०' // 31 // 52 // इत्यनेनांशितत्पुरुषो वाक्यं च न तु 'षष्ठययत्नाच्छेषे' // 3 // 1176 // इत्यौत्सर्गिकः कायपूर्व इति षष्ठीसमासः / अत्र चायेंऽशे समासानां वृत्तिर्विकल्पेनेतिरूपे ज्ञापकं 'नित्यं प्रतिनाऽल्पे' // 31 // 37 // इत्यत्र . नित्यमिति वचः / तद्धि अनेन न्यायेन प्राप्तविकल्पबाधनार्थम् / द्वितीयांशे च
Loading... Page Navigation 1 ... 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254