SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ प्राग्वदन्तरङ्गत्वाद् विभक्त्युत्पत्तेः प्रागेवापः प्राप्तावदन्तत्वाभावाद् ङीन स्यात् / कृत्प्रत्ययविधायिसूत्रे उसिनेत्येकदेशस्य समुदायोपलक्षणत्वेन संपूर्णपञ्चमीलाभोत् 'विशेषणमन्तः' // 74 / 113 // इति परिभाषयाऽन्तशब्दलाभाच्च पञ्चम्यन्तेन पदेनोक्तं ङस्युक्तम् / तत्र कुसिनैवोक्तस्य यथा-कच्छं पिबतोति कच्छपी इत्यादौ कच्छ अम् प इति स्थिते 'नाम्नो गमः खड्डौ च० // 5 / 1 / 131 // इत्यतोऽधिकृतान्नाम्नः परस्य स्थाधातोविहितो यः 'स्थापास्नात्रः कः' // 51142 // इति कप्रत्ययस्तदन्तेन पेत्यनेन सह कच्छशब्दस्य 'ङस्युक्तं कृता' // 31 // 42 // इति तत्पुरुषः। कच्छशब्दस्य नाम्न इति सिनोक्तत्वात् / ततः स्त्रीत्वविवक्षायां 'जातेरयान्त०' // 24 // 54 // इत्यनेन कच्छपशब्दाददन्ताद ङोः सिद्धः। विभक्त्यन्तेन पेत्यनेन समासे तु प्राग्वदापः प्राप्तावदन्तत्वाभावाद् डोर्न स्यात् / पञ्चमीभ्यसोक्तमप्युक्तयुक्त्या डस्युक्तमेव / तस्य यथा-विषं धरतीति विषधरी इत्यादी विष अम् धर इति स्थिते विषशब्दस्य 'आयुधादिभ्यो०' // 5 / 194 // इति सूत्रे आयुधादिभ्य इति भ्यसोक्तस्यापि ङस्युक्तत्वादच् प्रत्ययान्तेन धरेत्यनेन सह 'उस्युक्तं कृता' इति तत्पुरुषः। ततः त्रीत्वविवक्षायां 'जातेरयान्त.' इति ङीः। विभक्त्यन्तेन धरेत्यनेन समासे तु पूर्ववददन्तत्वाभावाद् ङोर्न स्यात् / ज्ञापकमस्य कारकांशे 'क्रीतात्करणादेः' इत्यनेनादन्तात् क्रीताद् ङीविधिः / अत्र तावत्करणादेः क्रीतादित्युक्तम् / करणस्य आद्यवयवत्वं च समासं विना न स्यात् / एतन्न्यायाभावे विभक्त्यन्तेन क्रीतेत्यनेन समासे अन्तरङ्गत्वाद् विभक्त्युत्पत्तःप्रागेवापःप्राप्तौ क्रीतस्याददन्तत्वं न संभवति तथापि यददन्तादित्युक्तं तदिमं न्यायांशं ज्ञापयति / गतिङस्युक्तांशयोस्त्वस्य ज्ञापकं विष्किरी, कच्छपीत्यादौ ङीप्रतिबन्धकाग्निषेधयत्नाकरणम् / अनित्यता त्वस्य न दृश्यते // 91 // . समासतद्धितानां वृत्तिविकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः // 12 // ____ अयमर्थः-परार्थाभिधानं वृत्तिः / सा च त्रेधा / समासवृत्तिस्तद्धितान्तवृत्तिर्नामधातुवृत्तिश्च / यथा राजपुरुषः, औपगवः, पुत्रकाम्यतोति / तत्र समासवृत्तौ समस्यमानपदानि शेषवृत्त्योस्तु प्रकृतिप्रत्ययौ संभूय समुदायार्थ सह ब्रुवन्तीतिरीत्या परस्थान्यर्थस्य-स्वार्थातिरिक्तस्य समुदायार्थस्य यदभिधानं सा वृत्तिः / तत्र वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा येन नाप्राप्ते इति न्यायाद्वाक्यस्य बाधिका प्राप्नोति इति बिकल्पेन तस्यानुज्ञा अनेन न्यायेनोच्यते। तथा वृत्तिपक्षे उत्सर्गापवादरूपयोवृत्योः संभवे उत्सर्गस्य नित्यमेव बाधश्चानेन न्याये. नोच्यते / तत्र समासवृत्तिर्यथा-कायस्य पूर्वोऽशः पूर्वकायः / अत्र 'पूर्वापराधरो०' // 31 // 52 // इत्यनेनांशितत्पुरुषो वाक्यं च न तु 'षष्ठययत्नाच्छेषे' // 3 // 1176 // इत्यौत्सर्गिकः कायपूर्व इति षष्ठीसमासः / अत्र चायेंऽशे समासानां वृत्तिर्विकल्पेनेतिरूपे ज्ञापकं 'नित्यं प्रतिनाऽल्पे' // 31 // 37 // इत्यत्र . नित्यमिति वचः / तद्धि अनेन न्यायेन प्राप्तविकल्पबाधनार्थम् / द्वितीयांशे च
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy