Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1211 ज्ञप्त्यर्थ स्फूर्जादीनां सदीर्घपाठः क्रियेत। अनित्यस्यानित्यत्वं न संभवतीति नदर्श्यते // अनित्यो णिचुरादीनाम् // 10 // सर्वत्र भवन्नपि यथाप्रयोगदर्शनं क्वचिन्न भवेदपीत्यर्थः। यथा चुरण चोरति चितुण् चिन्ततीत्यादि / ज्ञापकमस्य चुरादिघुष ऋदित्त्वम् / तद्धि 'ऋदिच्चिस्तम्भू०' // 34 // 65 // इत्यङि अघुषदित्यादिरूपसिद्धयर्थमेव कृतम् / णिचो नित्यत्वे तु विशेषविधित्वात् 'णिश्रिद्रुनु० // 3 / 4 / 58 // इतिङस्यैव प्राप्तेरजू. घुषदित्यस्यैव भवनेनाङोऽवकाशस्यैवाभावात् किमर्थ तत् / अस्यानित्यत्वम् / युजादिवर्जानामेव चुरादीनां यथाशिष्टप्रयोगमनित्यो णिच, युजादीनां तु 'युजा. देर्नवा' // 3 / 4 / 18 // इति नित्य एवेति स्वीकारात् // 100 // णिलोपोऽप्यनित्यः // 10 // यथाप्राप्ति सर्वत्र भवन्नपि क्वचिन्न भवतीत्यर्थः। यथा-'मधवो युधि सुप्र. कम्पयाः' इत्यत्र सुप्र-पूर्वात् ण्यन्तात् कम्पेः खलि णेढुंचो अनित्यत्वादभवने गुणे अयादेशः सिद्धः। ज्ञापकमस्य 'णिवेत्यास॥५।३।१११॥ इत्यनापवादस्य 'भीषिभूषिचिन्ति०' // 5 // 3 / 109 // इति सूत्रस्य 'जागुरश्च' // 5 // 3 // 140 // इति सूत्रात्प्रारब्धे अप्रत्ययाधिकारे करणे सति अप्रत्ययेनापि चिन्ता-पूजादीनां णेलुंकि सिद्धावपि 'षितोऽङ्' // 5 / 3 / 107 // इति सूत्रात्प्रारब्धे अप्रत्ययाधिकारे 'भीषिभूषि०' इतिसूत्रकरणेनाविधानम् / तथा हि-अप्रत्ययस्याङश्च भेदस्तावद् ङित्वेनैव / डित्वस्य च साध्यं गुणाभाव एव / णिलोपस्य नित्यत्वे तु णेलुकि नाम्यभावाद् गुणप्राप्तिरेव नेति किमर्थमप्रत्ययत्यागेनाङ्प्रत्ययमानेतुमङोऽधिकारे 'भीषिभूषि०' इति सूत्रं क्रियते। यच्च कृतं तदेव ज्ञापयति-णिलोप अनित्य इति / एवं च णेटुंगभावे यदि अप्रत्यय आनीयते तर्हि णेर्गुणे चिन्तया पूजयेति स्यात्, इष्यते चिन्तिया, पूज्येति / अतोऽङोऽधिकारे सूत्रं कृतम् / तथा च गुणाभावे क्रमेण 'संयोगात् ' // 2 // 1 // 52 // इतीयि 'योऽनेक०' // 21 // 56 // इति यत्वे च चि. न्तिया, पूज्येति सिद्धम् // 10 // णिचसंनियोग एव चुरादीनाम् // 102 // चुरादीनामिति सामान्योक्तेऽङ्कादीनां ब्लेष्कान्तानामिति ज्ञेयं नान्येषाम् / तेषामदन्तत्वस्यैवासंभवात् / प्राग् णिचः सर्वत्र यथादर्शनमनित्यत्वोक्तेणिजभावपक्षे अङ्कादीनामदन्ततानिषेधार्थोऽयं न्यायः / यथा जगणतुरित्यादौ णिजभावपक्षे गणेरनदन्तत्वेनानेकस्वरत्वाभावादामादेशो नाभूत् / शापकमस्य 'ई वा गणः' इत्यपि कृते अजीगणदजगणदिति रूपद्वयसिद्धावपि ‘ई च गणः' // 4 // 1 // 67 // इति सूत्रकरणम् / तथाहि-गणेस्तावण्णिचि णिगि च प्रत्येकमजीगणदजगणदिति द्वैरूप्यमिष्टम् / यदि च गणेः सर्वथाऽप्यदन्तत्वं स्यादेव तदा तद् द्वैरूब्यम् / 'ई बा गणः' इति सूत्रेणापि सिद्धयति / यथा-प्रथमे पक्षे 'ई वा गणः' इति ईत्वं स्याद् , द्वितीये तु यथाप्राप्तं समानलोपि
Loading... Page Navigation 1 ... 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254