Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1212 त्वात् सन्वद्भावाद्यभाव इति / तथापि यत् 'ई च गणः' इति सूत्रं कृत्वा चकारेणाकारानुकर्षणं कृतं तत् णिच अनित्यत्वादभवनपक्षे यदा एतन्न्यायेनादन्तत्वं भविष्यति तदा णिगि परे 'ई वा गणः' इति ईत्वे विकल्पितेऽप्यजीगणदित्येकमेव रूपं प्राप्स्यति; तथा च मा भूत किन्त्वजगणदित्यपि यथा स्यादित्येवमर्थ तत् / अनित्यश्चायम् / 'पतण गतौ वा' इति धातुपारायणे 'वाशब्दो णिजन्तत्वयोर्विकल्पार्थः / इत्युक्तेः / नित्यत्वे त्वस्य 'वाशब्दो णिग्विकल्पार्थः' इत्येवोक्तं स्यात् // 102 // धातवोऽनेकार्थाः॥१०३|| तेन धातुपाठेऽनुक्तोनुक्तोऽप्यर्थो लक्ष्यानुसारात् तेषां प्रयोज्य इत्यर्थः / यथा विधत् विधाने / अयं व्यधार्थेऽपि / यथा-वेधः शब्दवेधी / एधि वृद्धौ / अयं दीप्त्यर्थेऽपि / यथा पुरश्चक्रं तवैधते / प्राप्त्यर्थेऽपि / यथा-औपवस्त्रफलमेधते इत्यादि / ज्ञापकमस्य 'तक्षः स्वार्थे वा // 3 / 4 / 77 // इत्यत्र स्वार्थे इति विशेषणम् / तेन ह्यान्तरे नुन / यथा संतक्षति वाग्भिः शिष्यम् / निर्भर्सयतीत्यर्थः। एतन्न्यायाभावे तक्षोऽर्थान्तरवृत्यभावादेव स्वार्थ इत्युक्तिरस्थान एव। अनित्योऽप्ययम् / तेन धात्वर्थ बाधते कश्चिदुपसा यथा-प्रतिष्ठते, प्रवसतोत्यादोत्युक्तिन विरुद्धयते / एषां धातुपाठे योऽर्थः पठितोऽस्ति स एवार्थो यदि स्थादिधातूनां स्यात्तदैवोच्यमाना संगच्छते / यदि त्वेतन्न्यायाद्धातूनामनेकार्थत्वं स्यादेव तदा स्थादिधातूनां स्थित्याद्यर्थस्येव गत्याद्यर्थत्वस्यापि संभवादाचष्टे आलोकते इत्यादाविव प्रतिष्ठते इत्यादावग्युपसर्गस्य धात्वर्थ प्रत्यनुवर्तकत्वमेवोच्यमानं यौक्तिक स्यान्नतु बाधकत्वमिति / अनित्यत्वे ज्ञापकं तु प्रवापयति, प्रवाययतोत्यनयोतिवेतिभ्यां णौ सिद्धावपि 'वियःप्रजने' // 4 // 2 // 13 // इति सूत्रकरणम् / तथाहि-पुरो वातो गाः प्रवापयतोति तावद्वांक् गतिगन्धनयोरित्यस्य धातोणिगि सिद्धयति / प्रवाययतीत्यपि च वींक प्रजनकान्त्यसनखादनेष चेत्यस्य धातोणिगि / तथापि यद् ‘वियः प्रजने' इति सूत्रं कृत्वा वियो विकल्पेन आत्वकरणं तदेतन्न्यायानित्यत्वेन वांक्धातोः प्रजने वृत्त्यभावमेव दर्शयति // 103 // धातव इति संबद्धयते / यथा गमयति शब्दोऽर्थ ज्ञापयतीत्यर्थः / ज्ञापकमस्य 'णावज्ञाने गमुः // 4 / 4 / 24 // इत्यत्रेणोऽशान इति विशेषणम् / तेन हि प्रत्याययत्यानित्यादाविणो ज्ञानार्थत्वान्न गम्वादेशः। एतन्न्यायाभावे गत्यर्थस्य ज्ञानार्थत्वासंभवादज्ञान इति विशेषणं वृथैव / अनित्यश्चायम् / 'गतिबोधाहारार्थ०' // 225 // इत्यत्र बोधग्रहणात् / नित्यत्वे त्वस्य गत्यर्थानां बोधार्थत्वसंभवेन केवलं गतिशब्दमेव गृह्णीयात् // 104 // नाम्नां व्युत्पत्तिरव्यवस्थिता // 105 // ... तेन नामानि अनेकधाऽपि व्युत्पाद्यन्त इत्यर्थः। यथा अश्वस्याम्बा वडवा,
Loading... Page Navigation 1 ... 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254