________________ 1212 त्वात् सन्वद्भावाद्यभाव इति / तथापि यत् 'ई च गणः' इति सूत्रं कृत्वा चकारेणाकारानुकर्षणं कृतं तत् णिच अनित्यत्वादभवनपक्षे यदा एतन्न्यायेनादन्तत्वं भविष्यति तदा णिगि परे 'ई वा गणः' इति ईत्वे विकल्पितेऽप्यजीगणदित्येकमेव रूपं प्राप्स्यति; तथा च मा भूत किन्त्वजगणदित्यपि यथा स्यादित्येवमर्थ तत् / अनित्यश्चायम् / 'पतण गतौ वा' इति धातुपारायणे 'वाशब्दो णिजन्तत्वयोर्विकल्पार्थः / इत्युक्तेः / नित्यत्वे त्वस्य 'वाशब्दो णिग्विकल्पार्थः' इत्येवोक्तं स्यात् // 102 // धातवोऽनेकार्थाः॥१०३|| तेन धातुपाठेऽनुक्तोनुक्तोऽप्यर्थो लक्ष्यानुसारात् तेषां प्रयोज्य इत्यर्थः / यथा विधत् विधाने / अयं व्यधार्थेऽपि / यथा-वेधः शब्दवेधी / एधि वृद्धौ / अयं दीप्त्यर्थेऽपि / यथा पुरश्चक्रं तवैधते / प्राप्त्यर्थेऽपि / यथा-औपवस्त्रफलमेधते इत्यादि / ज्ञापकमस्य 'तक्षः स्वार्थे वा // 3 / 4 / 77 // इत्यत्र स्वार्थे इति विशेषणम् / तेन ह्यान्तरे नुन / यथा संतक्षति वाग्भिः शिष्यम् / निर्भर्सयतीत्यर्थः। एतन्न्यायाभावे तक्षोऽर्थान्तरवृत्यभावादेव स्वार्थ इत्युक्तिरस्थान एव। अनित्योऽप्ययम् / तेन धात्वर्थ बाधते कश्चिदुपसा यथा-प्रतिष्ठते, प्रवसतोत्यादोत्युक्तिन विरुद्धयते / एषां धातुपाठे योऽर्थः पठितोऽस्ति स एवार्थो यदि स्थादिधातूनां स्यात्तदैवोच्यमाना संगच्छते / यदि त्वेतन्न्यायाद्धातूनामनेकार्थत्वं स्यादेव तदा स्थादिधातूनां स्थित्याद्यर्थस्येव गत्याद्यर्थत्वस्यापि संभवादाचष्टे आलोकते इत्यादाविव प्रतिष्ठते इत्यादावग्युपसर्गस्य धात्वर्थ प्रत्यनुवर्तकत्वमेवोच्यमानं यौक्तिक स्यान्नतु बाधकत्वमिति / अनित्यत्वे ज्ञापकं तु प्रवापयति, प्रवाययतोत्यनयोतिवेतिभ्यां णौ सिद्धावपि 'वियःप्रजने' // 4 // 2 // 13 // इति सूत्रकरणम् / तथाहि-पुरो वातो गाः प्रवापयतोति तावद्वांक् गतिगन्धनयोरित्यस्य धातोणिगि सिद्धयति / प्रवाययतीत्यपि च वींक प्रजनकान्त्यसनखादनेष चेत्यस्य धातोणिगि / तथापि यद् ‘वियः प्रजने' इति सूत्रं कृत्वा वियो विकल्पेन आत्वकरणं तदेतन्न्यायानित्यत्वेन वांक्धातोः प्रजने वृत्त्यभावमेव दर्शयति // 103 // धातव इति संबद्धयते / यथा गमयति शब्दोऽर्थ ज्ञापयतीत्यर्थः / ज्ञापकमस्य 'णावज्ञाने गमुः // 4 / 4 / 24 // इत्यत्रेणोऽशान इति विशेषणम् / तेन हि प्रत्याययत्यानित्यादाविणो ज्ञानार्थत्वान्न गम्वादेशः। एतन्न्यायाभावे गत्यर्थस्य ज्ञानार्थत्वासंभवादज्ञान इति विशेषणं वृथैव / अनित्यश्चायम् / 'गतिबोधाहारार्थ०' // 225 // इत्यत्र बोधग्रहणात् / नित्यत्वे त्वस्य गत्यर्थानां बोधार्थत्वसंभवेन केवलं गतिशब्दमेव गृह्णीयात् // 104 // नाम्नां व्युत्पत्तिरव्यवस्थिता // 105 // ... तेन नामानि अनेकधाऽपि व्युत्पाद्यन्त इत्यर्थः। यथा अश्वस्याम्बा वडवा,