________________ 1213 असृगालेढि सृगालः, मह्यां रौति मयूरः-इत्यादि पृषोदरादित्वात् सिद्धम् / पुनवंड आग्रहणे इति सौत्राद्धातोः 'वडिवटि०' ( उ० 515) इत्यवे वडवा / सृधातोः 'सर्तेोऽन्तश्च' ( उ० 478 ) इति कित्याले गागमे च सृगालः / मीनातेः 'मीमसि' ( उणा० 427 ) इत्यूरे मयूर इत्याधुणादावपि साधितम् / तथा सूर्यशब्दः कृति 'कुप्यभिद्योध्यसिद्धय० // 5 // 1 // 39 // इत्यनेन सृधातोः क्यपि संज्ञायां निपातितः / पुनस्तद्धिते सूरशब्दस्य मादिगणपाठात् 'मर्त्तादिभ्यो यः' // 7 / 2 / 159 // इति स्वार्थिकप्रत्ययेनापि साधितः / झापकमस्य शब्दानामसकृद् व्युत्पादनमेव / अनित्यत्वाञ्चास्य रूढनाम्नामेव व्युत्पत्तिरव्यवस्थिता न तु यौगिकानां नीलकण्ठादीनाम् // 105 // उणादयोऽव्युत्पन्नानि नामानि // 106 // अवयवावयविनोरभेदोपचारात् उणादय इत्युणादिप्रत्ययान्तानि कारुपायवादिनामानि 'कृवापा' ( उणा० 1) इत्यादिना पश्चोत्तरसूत्रसहस्त्रेण 'उणादयः' // 5 / 293 // इति सूत्रसूचितेन यद् व्युत्पादितानि तत्प्रकृतिप्रत्ययविभागेन वर्णानुपूर्वीविज्ञानार्थमेव नतु कर्तेत्यादिक्रियाशब्दवदन्वर्थदर्शनार्थम्। तेन तत्त्वतस्तान्यव्युत्पन्नानि / तेषां रूढिशब्दत्वेन व्युत्पत्तेरकिंचित्करत्वात् / यथा वींधातोः 'पटिवीभ्याम् ' ( उणा० 579 ) इति डिसे बिसम् / अत्रैवं व्युत्पादितस्याप्यस्य नाम्नस्तत्त्वतो अत्युत्पन्नत्वेन सस्य कृतत्वाभावान्न षः / ज्ञापकमस्य 'अतः कृकमि० // 2 // 3 / 5 // इति सूत्रे कमिग्रहणात्कमेरौणादिकेन 'मावावधमि०' ( उणा० 564 ) इति सेन निष्पन्ने कंसे लब्धेऽपि पृथकंसग्रहणम् / तथाहि-अतःकृकमि० // 2 // 35 // इति सूत्रे तावत् कृकमी केवलाभ्यां समासासंभवात् प्रत्ययान्तौ ग्राह्यावित्युक्तम् / यथा-अयस्कारः, अयस्काम इत्यादि / एतन्न्यायाभावे कंस इत्यत्र कमेरेव सप्रत्ययान्तस्य सद्भावात् पयस्काम इतिवत् पयस्कंस इत्यपि कमिग्रहणेनैव सिद्धयतीति किमर्थ पृथकंलग्रहणं क्रियेत / यत्तु कृतं तदेतन्न्यायादव्युत्पन्न एवायं कंसशब्दो न तु कमिना व्युत्पन्न इति बुद्धयैव / तदेवमेतन्न्यायोत्थया कंसशब्दाव्युत्पनत्वबुद्धया कृतं पृथकंसग्रहणमेतन्न्यायं गमयति। अस्य चानित्यत्वम् / क्वचिदेषां त्युत्पत्तिपक्षस्याप्याश्रणात् / तेन वपेरौणादिके रुद्यति' (उणा०९९७) इत्युसि वपुषेत्यादौ सस्य कृतत्वात् षः। अनित्यत्वे ज्ञापकं तु 'तस्वसृ' // 1 / 4 / 38 // इति सूत्रे तृग्रहणेनैव सिद्ध पुनर्नवादोनामौणादिकानां पृथक्पठनस्य नियमार्थत्वम् / तद्धि तदैव स्याद्यदि तृग्रहणेनैव नप्त्रादीनामप्यार सिद्धः स्यात् / तृग्रहणेन च नत्रादीनामार् तदैव सिद्धयति यदि व्युत्पत्तिपक्ष आश्रीयते / नियमश्चायम्-औणादिकतृप्रत्ययान्तानां नप्त्रादीनामेवार नान्येषाम् / तेन पितरौ, मातरौ इत्यादोनां न // 106 // शुद्धधातूनामकृत्रिम रूपम् // 107 // शुद्ध इति कोऽर्थः। ये यादृशा धातुपाठे पठितास्तेषामकृत्रिम रूपमिति