________________ 1991 इत्यल्लोप एव / ज्ञापकमस्य तत्र तत्र ‘कर्तस्था०' इति सूत्रे लोपात्स्वरादेशः इति न्याये च यथाक्रमं शमयत्यर्थस्य नयतेरिति दीर्घवर्जः स्वरादेश इति च विशेषणस्थानुक्तिरेव / अनित्यश्चायम् / 'इदमदसोऽक्येव' // शा४३॥ इत्यत्रानिष्टनियमापोहार्थमेवकारप्रयोगात् / 'इदमदस' इत्यस्य नियमसूत्रमात्रत्वं तु एवकारं विनापि सिद्धयति / यथा-इमकैः अमुकैः इत्यत्र 'भिस ऐस् // 142 // इत्यनेनैव ऐसि सिद्ध नियमार्थमिति / परमत्र द्वौ नियमौ संभवतः। इदमदस एवाकि भिस ऐस् न त्वन्यशब्देभ्यः इत्येकः। इदमदसोऽक्येव सति भिस ऐस न त्वकोऽभावे इत्यन्यः / तत्राद्योऽनिष्टस्तकविश्वकैरित्यादावपि ऐसो दर्शनात् / द्वितीयस्त्विष्ट एभिरमीभिरित्यत्रादर्शनात् / तत एतदर्थमेव अक्येवेत्येवकारः प्रयुज्यते / एतन्न्यायस्य नित्यत्वे तु अनिष्टनियमापोहन मिष्टनियमग्रहणं चैतन्न्यायेनैव सेत्स्यतोति कुतस्तदर्थमेवकारप्रयोगः // 58 // .. प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् // 19 // अत्र प्रकृतिर्धातुरूपा नामरूपा च गृह्यते / स्वार्थिकप्रत्ययान्तानामिति प्रकृ. तीनामिति शेषः / प्रकृतीनां केवलत्वे स्वार्थिकप्रत्ययान्तत्वे च बहुः शब्दभेदः स्यादिति शब्दभेदादन्यस्य कथनेऽन्यग्रहणं न प्राप्नोतीत्ययं न्यायः। तत्र धातुरूपा प्रकृतिर्यथा-'विनिमेयद्यूतपणं पणिव्यवहोः' // 22 // 16 // इत्यत्र पणीत्युक्तेः केवलस्यैव पणेर्ग्रहणं प्राप्नोति तथापि स्वार्थिकायप्रत्ययान्तस्यापि स्यात् / तेन शतस्य शतं वा अपणिष्टेत्यादाविव शतस्य शतं वा अपणायीदित्यत्रापि 'विनिमेय०' इत्यनेन वा कर्मत्वम् / नामरूपा यथा-ग्रामात् परस्मिन् देशे वसतीत्यादौ केवलपरशब्दयोगे इव ग्रामात् परस्ताद्वसतीत्यादौ स्वार्थिकस्तात्प्रत्ययान्तपरशब्दयोगेऽपि 'प्रभृत्यन्यार्थ' // 222175 // इति दिग्योगलक्षणा पञ्चमी। शापकमस्य सर्वादिगणे नियमार्थ डतरडतमोपादानम् / प्रत्ययानां केवलानां सर्वादित्वासंभवात् प्रत्ययः प्रकृतिमाक्षिपतीति कृत्वा येभ्यः स्वार्थिको डतरडतमौ संभवतस्ते यदादिशब्दा डतरडतमान्ता इह डतरडतमाभ्यां गृह्यन्ते इत्येतदर्थ तत् नियममपि करोति यथा-सर्वादीनां स्वार्थिकप्रत्ययान्तानां प्रकृतिसर्वादित्वद्वारेण यदि सर्वादित्वं स्यात्तर्हि डतरडतमान्तानामेव स्यान्नत्वन्यस्वार्थिकप्रत्ययान्तानाम् / तेन प्रकृष्टार्थे स्वार्थिकतमपि सर्वतमाय सर्वतमादित्येव स्यात् / इत्थं चान्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वाभावार्थ डतरडतमग्रहणयत्नस्तदैव कर्तुं युज्यते यदि सर्वस्वार्थिकप्रत्ययान्तानां सर्वादित्वप्राप्तिः केनापि प्रसक्ता स्यात् / सा चैतन्यायसत्व एव संभवति नान्यथा / अनित्यश्चायम् / पणायतीत्पादौ पणिधातोरिदित्वेऽप्यात्मनेपदाभावात् / अनित्यत्वे ज्ञापकं तु कामयते इत्यत्रात्मनेपदार्थ णिङो ङित्वं क्रियते // 59 // प्रत्ययाप्रत्यययोः प्रत्ययस्यैव // 60 // ग्रहणमिति संबध्यते / यत्र विवक्षितशब्दः प्रत्ययरूपोऽप्रत्ययरूपश्च संभ