________________ 1190 प्रथमं विसर्गे ततो रेफाभावेन दीर्घाभवने ‘आशीः' इति निर्देशासंभव एव / अनित्यश्चायम् / उत्तरेण बाध्यमानत्वात् // 54 // अन्तरङ्गाच्चानवकाशम् // 55 // बहिरङ्गमपीति शेषः / यथा त्वमहमित्यत्र प्रकृतिमात्रादेशत्वेनान्तरङ्गाभ्यामपि त्वमादेशाभ्यां प्रागेव प्रकृतिप्रत्ययादेशत्वाद् बहिरङ्गावपि त्वमहमादेशावनवकाशत्वादेव भवतः / ज्ञापकमस्य 'त्वमहं सिना प्राक् चाक: // 2 // 1 // 12 // इति सूत्रारंभ एव / यद्यन्तरङ्गत्वात्त्वमावेव स्यातां तर्हि 'त्वमहं सिना०' इति व्यर्थमेव निरवकाशत्वात् / अनित्यत्वमस्य नास्ति // 55 // उत्सर्गादपवादः॥५६॥ तेन आपचन्त्यस्मिन्निति आपाकः इत्यत्रौत्सर्गिकस्य पुनानि घः', // 5 / 3 / 130 // इति घस्य प्राप्तौ 'व्यञ्जनाद् घञ्' // 5 / 2 / 132 // इति घव स्यादपवादत्वात् / ज्ञापकमस्य, गोचरसंचरवह०' // 53 / 131 // इति गोचरादीनां निपातनम् / तद्धि एतन्न्यायबलादौत्सर्गिकं घं बाधित्वा घनेव भविष्यतीत्याशंकया कृतम् / अनित्यश्चायम् / उत्तरेण बाध्यमानत्वात् // 56 // ___ अपवादात् कचिदुत्सर्गोऽपि // 17 // यथा मख गतौ मखन्ति स्वर्ग गच्छन्त्यनेनेति मखः इत्यादौ अपवादमपि 'व्यञ्जनाद घञ्' इति घनं बाधित्वा औत्सर्गिकोऽपि नाम्नि' इति घ एव बलवत्त्वाद् भवति / ज्ञापकमस्य मखादीनां सिद्धौ यत्नान्तराकरणमेव / अनित्य त्वमस्य न दृश्यते // 57 // नानिष्टार्था शास्त्रप्रवृत्तिः // 58 // . अयमर्थः-शास्त्रस्य-सूत्रस्य न्यायस्य वा अनिष्टप्रयोगसिद्धयर्थं प्रवृत्तिन क्रियते, शिष्टप्रयोगसिद्धयर्थमेव तत्सद्भावात् / अनिष्टप्रयोगसिद्धिप्रतिबन्धा ोऽयं न्यायः / तत्र सूत्रस्य यथा-नयतेगित्त्वात् फलवत्कर्तृविवक्षयाऽऽत्मनेपदे सिद्धेऽपि 'कर्तृस्थामू प्यात् ' // 3 // 3 // 40 // इति यदारभ्यते तत् कर्तृस्थामू प्यिादेव नयतेरात्मनेपदं यथा स्यात् श्रमं विनयते यमयतीत्यर्थ इत्यादौ न त्वन्यत्र चैत्रस्य मन्युं विनयतीत्यादाविति नियमार्थम् / अयं च नियमः ‘कर्तृस्थामूर्ताप्यादि'त्यत्र अर्थविशेषानुक्तावपि शमयतिक्रियार्थस्यैव नयतेविज्ञेयो नत्वन्यार्थस्येत्येव शिष्टाभिप्रेतम् / ततश्च शमयतिक्रियार्थान्नयतेर्यद्यात्मनेपदं भवति तर्हि कर्तृस्थामूर्ताप्यत्वसद्भाव एव नतु तदभावे फलवत्कर्तृविवक्षयापीति व्यवस्थितम् / तेन शमयतिक्रियातोऽन्यत्रार्थे फलवत्कर्तृविवक्षाऽविवक्षाभ्यामात्मनेपदपरस्मैपदे सिद्धे-अजा ग्रामं नयते नयतीत्यादौ / न्यायस्य यथा-'लोपात्स्वरादेशः' इति हि न्यायः चिकीर्ण्यते इत्यादौ चिकीर्ष इति स्थिते 'क्यः शिति' // 3470 // इति कये परे सनो, 'दीर्थश्वि०॥४॥३॥१०८ // इति दोर्घरूपं स्वरादेश कर्तुं न प्रवर्तते, दीर्घस्य शिष्टानिष्टत्वात् / तेन सनः / अतः' // 4 // 3 // 82 //