________________ 1192 पति तत्रासौ प्रत्ययरूप एव गृह्यते न त्वप्रत्ययरूप इत्यर्थः। उभयोर्ग्रहणे प्रसक्ते व्यवस्थार्थोऽयं न्यायः / यथा 'कालात्तनतरतमकाले' // 32 // 24 // इत्यत्र तरतमौ प्रत्ययावेव गृह्यते न तु तरति, ताम्यतीत्यचि व्युत्पन्ने नाम्नी / ज्ञापकमस्य तत्तसूत्रे अविशेषेणोक्तिरेव / अस्याप्यनित्यत्वम्। 'स्त्रीदूतः // 14 // 29 // इत्यादौ 'नारी० // 2476 // इत्यादिङीप्रत्ययान्तानामिव तरीत्यादिप्रत्यय रहितानामव्युत्पन्नानामपि ग्रहणात् / अनित्यत्वज्ञापकं तु 'धातोरिवर्ण०' // 2 // 1 // 50 // इत्यत्र साक्षात् प्रत्ययग्रहणम् // 60 // अदाधनदायोरनदादेरेव // 31 // धातोरिति शेषः / ग्रहणमित्यत्रापि संबध्यते / यत्र विवक्षितो धातुरादादिकोऽन्यश्च संभवेत् तत्रान्य एव गृह्यते न त्वादादिकः। यथा 'उपान्वध्याङ्वसः' // 2 / 2 / 29 // इत्यत्र वस्तेर्युदासेन वसतेरेव ग्रहणम् / शापकमस्य 'शासस्हनः शाध्येधिजहि // 4 / 2 / 84 // इत्यत्रास्तेरादादिकग्रहणसिद्धयर्थं शास्हन्साहचर्यबलग्रहणम्। तद्धि एतन्न्यायादसत्यस्यतोर्ग्रहणे प्रसक्ते तद्वारणार्थ कृतम् / अस्याप्यनित्यत्वम् / 'ऋहीघ्राधात्रो० // 4 / 2 / 76 // इत्यत्र भौवादिकस्येव आदादिकस्यापि ऋधातोर्ग्रहणदर्शनात् // 6 // प्राकरणिकामाकरणिकयोः प्राकरणिकस्यैव // 62 // ___ग्रहणमिति योज्यम् / प्रकरणेन चरति प्राकरणिकं-स्वाधिकारोक्तं प्रत्ययादि / अप्राकरणिक-विवक्षितसूत्रापेक्षया अन्याधिकारोक्तम् / तत्रोभयोर्ग्रहणे संभवति स्वाधिकारोक्तमेव प्रत्ययादि गृह्यते नत्वन्याधिकारोक्तमित्यर्थः / तेन 'इज इतः // 2471 // इत्यत्र 'यत्रो डायन् च वा' // 4/67 // इत्यतः प्रारब्धात् तद्धिताधिकारात् तद्धितीय एवेञ् गृह्यते न तु 'प्रश्नाख्याने वे' // 5 / 3 / 119 // इति कृत्सूत्रोक्तः। ततश्च सुतङ्गमेन निर्वृत्ता सौतङ्गमीत्यत्र 'सुतङ्गमादेरिञ्' // 2 // 85 // इतीनि 'इज इतः' इति कीर्भवति न तु 'हे चैत्र कां त्वं कारिमकार्षीः, सर्वां कारिमकार्षम् ' इति कृदिञन्तात् कारिशब्दात् / शापकमस्य 'द्रेरणोऽप्राच्यभगदिः // 6 // 1 // 123 // इत्यत्र 'शकादिभ्यो नेर्लुप्' // 6 / 1 / 120 // इत्यस्मात् द्रावनुवर्तमानेऽपि पुनर्द्रिग्रहणम् / तद्धि एतन्न्यायात् प्राकरणिकस्यैवापत्याधिकारीयस्य द्रेरञणोऽनेन लुप् भविष्यति अस्याप्यपत्याधिकारस्थत्वात् न त्वप्राकरणिकस्य शस्त्रजीविसंघाधिकारीयस्येत्याशङ्कय द्विविधिस्यापि तस्य लुप् स्यादित्येतदर्थं कृतम् / तेन मद्रस्यापत्यं स्त्री 'पुरुमगधकलिङ्ग० // 6 // 116 // इति द्रिसंज्ञेऽणि 'द्रेरञण' // 61 / 123 // इति तल्लुपि प्रत्ययलोपेऽपि तल्लक्षणकार्यविज्ञानात् लुप्तेऽप्यणि अणजेय० // 24 // 20 // इति ङ्यां मद्रो। अत्र यथाऽपत्याधिकारीयस्य द्रेरणो लुप् तथा पशु म काचित् तस्यापत्यानि माणषकाः 'पुरुमगध' इत्यणि 'शकादिभ्य' इति तल्लुपि च पर्शवः, ते शस्त्रजीविसंघः स्त्रीत्वविशिष्टो विवक्षितः-'पर्वादेरण'