Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 12.1 भवनात् मनावी मनायी, मन्वी इति त्रैरूप्यं स्यात् // 79 // निर्दिश्यमानस्यैवादेशाः स्युः // 80 // यथा-'यस्वरे पादः // 21 / 102 // इत्यत्र पाद इत्यस्य तावत् पादन्तस्येति व्याख्या / पादन्तस्येत्येतञ्चाधिकृतस्य नाम्न इत्यस्य विशेषणम् / ततश्च पद् इत्यादेशस्यानेकवर्णत्वात् 'षष्ठयान्त्यस्य' // 74 / 106 // इति परिभाषां बाधित्वा ‘अनेकवर्णः' इत्यनेन पादन्तस्य नाम्नः सर्वस्य पद्भावप्राप्तौ न्यायेनानेन पाद इत्येतावत एव स्यात् / सूत्रे तस्यैव निर्देशात् / यथा द्वौ पादावस्य द्विपात् 'पात्पादस्याहस्त्यादेः // 7 // 3 // 148 // इत्यनेन पादस्य पाद्भावः / ततस्तृतीयायां 'यस्वरे पाद:०' // 2 // 1 // 102 // इत्यनेन पाद् इत्येतावत एव पद्भावे द्विपदा इति / अयं न्यायः पूर्वस्यैव प्रपञ्चः // 8 // अन्तरङ्गानपि विधीन् यबादेशो बाधते // 8 // प्रत्ययाश्रितत्वात् पदद्वयापेक्षत्वाच्च बहिरङ्गोऽपीति शेषः / यथा प्रशम्य इत्यत्र 'अहन्पञ्चमस्य विकिति' // 41107 // इति दीर्घत्वं प्रकृत्याश्रितत्वादेकपदापेक्षत्वाच्चान्तरङ्गमपि बाधित्वा पूर्व यप् / पश्चात्तु धुडादिप्रत्ययाभावान्न दीर्घत्वम् / ज्ञापकमस्य प्रजग्ध्येति सिद्धयै 'यपि चादो जग्ध् ' // 4 / 4 / 16 // इत्यत्र यपि चेति वचनम् / यदि क्त्वि परे जग्धादेशः, पश्चाच्च यप् क्रियते तदाऽपि प्रजग्ध्येति सिद्धयत्येव तथापि यद् यपि चेति वचनं तदेतन्न्यायेन यपः सर्वकार्येभ्यः पूर्व भवनादेव / अनित्यतास्य न दृश्यते // 81 // . सकृद्गते स्पः यद् बाधितं तद् बाधितमेव // 82 // गते इति धातूनामनेकार्थत्वाजाते, गत्यर्था इति न्यायाज्झाते इति वा / द्वयोविंध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रोपनिपात: स्पर्द्धः / द्वयोः सूत्रयोः स्पर्द्ध सति यत् केनापि हेतुना प्रथम बाधितं तद् बाधितमेवेति बाधकसूत्रप्रवृत्त्यनन्तरमपि न प्रवर्तत इत्यर्थः / यथा द्वयोः कुलयोः इत्यत्र द्वि ओस् इति स्थिते आदेशादागम इति न्यायात् प्रथमं 'अनामस्वरे०' // 1 / 4 / 64 // इति नोऽन्तः प्राप्तः स च परत्वादन्तरङ्गत्वाच्च 'आद्वेरः // 2 // 1142 // इत्यनेन बाधितस्ततस्तस्मिन् कृते 'एबहुस्भोसि० // 14 // 4 // इत्येत्वे च कृते पुनः प्राप्तोऽपि न स्यात। ज्ञापकमस्य 'उदच. उदीच' // 21103 // इत्यत्र णिवर्जनम् / तद्धि उदञ्चमाचष्टे' इति णौ उदयतीति रूपसिद्धयर्थम् / तद्धि उदीचादेशकरणान्तरं यदि 'त्रन्त्यस्वरादेः॥ 7443 // इत्यन्त्यस्वरादिलक् प्रवर्त्यते तदाऽपि सिद्धयत्येव / परं विशेषविहितत्वेनान्त्यस्वरादिलोपात्प्रागेवोदीचादेशे पश्चाच्चैतन्न्यायादन्त्यस्वरादिलुकोऽप्रवृत्तेरुदोचयतीत्येव स्यान्न तु उदयतीति णिवर्जनं कृतम् / तथा च उदीचादेशं विनाऽन्त्यस्वरादिलुकैवोदयतीति सिद्धम्। अनित्यश्चायम् / प्रियतिसृणः कुलस्येस्यत्र आगमात् सर्वादेशः इति न्यायेन प्रथम बाधितस्यापि नागमस्य तिस्रादेशानन्तरं पुनः करणात् // 82 // . 151
Loading... Page Navigation 1 ... 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254