Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri
View full book text ________________ 1200 प्राप्नोति न तु मेङः / तथा च मां-मांझ्मेडा ग्रहणमित्युक्तिरसङ्गतैव / अत्रांशेऽ. प्यनित्योऽयम् / 'मिमीमादामित्स्वरस्य' // 4 // 1 // 20 // इत्यत्र सामान्येन ग्रहणार्थ बहुवचनयत्नस्य कृतत्वात् / नित्यत्वे त्वस्य अनेनैव सामान्यग्रहणस्य सिद्धेः किमर्थं स यत्नः क्रियेत / दाग्रहणे यथा-'प्राज्ञश्च // 5 / 172 // इत्यत्र ज्ञारूपसाहचर्याद्दारूपमेव प्रत्याग्रहः कार्यो न तु दासंज्ञां प्रतीत्येव संसाध्य तदन्वेतन्यायबलादविशेषेण षड्भ्योऽपि दारूपेभ्यो डः कृतः / यथा-दुदांग्क् दाम् वाधनप्रदः / दो-वृक्षप्रदः। देंङ्-पुत्रप्रदः। दांक-केदारप्रदः। दैव-भाजनप्रद इति / एतन्न्यायांशाभावे अदाद्यनदाद्योरिति न्यायाहांग्क्दांक्वर्जानां चतुर्णामेव ग्रहणं प्राप्नोति / यद्वा लक्षणप्रतिपदीक्तयोरिति न्यायाहोंदेंङ्दैव्वर्जत्रयाणामेव ग्रहणं स्यात् / अत्रांशे ज्ञापकं 'दाधेसिशदसदोरुः' // 5 // 2 // 36 // इत्यत्र धयतेः पृथगुक्त्या दासंज्ञां प्रत्याग्रहोऽत्र न कार्य इत्येव वक्तुं शक्येऽपि षडपि दारूपा इह गृह्यन्त इत्यप्युक्तिः / धयतेः पृथगुक्तया तावदासंज्ञां प्रत्याग्रहस्य निरासोऽत्र भवतु, दारूपषट्कग्रहस्तु कथं सिद्धयेत् ; अदाद्यनदाद्योरित्यादिन्यायोनां सत्त्वात् / तथापि यद्दारूपाः षड् गृह्यन्त इत्युक्तं तदेतन्न्यायसत्त्वमस्य तदपवादत्वं च स्मृत्वैव / अत्रांशेऽनित्यत्वमस्य न दृश्यते // 78 // श्रुतानुमितयोः श्रीतो विधिबलीयान् // 79 // श्रुतः-सूत्रे साक्षाच्छब्देनोक्तः' अनुमितः-परिभाषया पूर्वानुवृत्ताधिकारादिना वा आरोपितः। श्रुतानुमितयोरिति संवन्धे षष्ठी। विध्योरिति चात्र शेषः। तत्र तु निर्धारणे षष्ठी। श्रुतस्यायं श्रौतः। ततश्च श्रुतानुमितयोः संबन्धिनोयोर्विध्योः संभवतोर्मध्ये श्रुतस्य विधिबलीयानिति स एव क्रियत इत्यर्थः / यथा 'ऋतां क्ङितीर' // 4 / 4 / 160 // तीर्णम् / अत्र श्रुतस्य ऋत एव इर् न तु 'अनेकवर्णः सर्वस्य' // 74 / 107 // इति ऋदन्तधातोः सर्वस्य / यत ऋदन्तत्वमृतामिति धातुविशेषणत्वेन 'विशेषणमन्तः' // 7 / 4 / 113 // इति परिभाषया आरोपितत्वादनुमितमित्युच्यते / ततोऽनुमितस्य ऋदन्तत्वस्य विधिनिर्बलत्वान्न क्रियते / ऋदन्तस्य विधिः कः इति चेत् इरोऽनेकवर्णत्वात् 'अनेकवर्णः' इति परिभाषया यदखण्डस्य ऋदन्तधातोरिर् प्राप्नोति स ऋदन्तत्वस्य विधिरिति / ज्ञापकमस्य 'ऋतामृत' इत्यकृत्वा सूत्रे ऋतामित्येव निर्देशः। तथाहि-ऋतामित्यस्य तावत् ऋदन्तानामिति व्याख्या / इर् चादेशोऽनेकवर्णः / ततश्च 'अनेकवर्णः' इति परिभाषया सर्वस्य ऋदन्तधातोरिर प्राप्नोति / इष्यते तु ऋमात्रस्यैव / तथा च अनेकवर्ण इति परिभाषाया अवकाशनिरासाय ऋतामृत इर् इति निर्देष्टुं युक्तम् / ' सत्यप्येवं ऋतामित्येव यनिर्दिष्टं तज्ञापयतीमं न्यायमिति / अनित्यश्चायम् / तेन 'मनोरौ च वा' // 24 // 61 // इत्यत्र वाशब्दो ङीप्रत्यये पूर्वाधिकारानुमिते संबध्यते न तु श्रुते औकारे / तथा च मनोर्भार्या इति धवयोगे 'मनोरौ च वा' इति वा उयां ङीयोगे औदैतोश्च मनावी, मनायी, मनुरिति त्रैरूप्यं सिद्धम् / औचेत्यस्य वाशब्दसंबन्धने तु ङीप्रत्ययस्य नित्यमेव
Loading... Page Navigation 1 ... 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224 1225 1226 1227 1228 1229 1230 1231 1232 1233 1234 1235 1236 1237 1238 1239 1240 1241 1242 1243 1244 1245 1246 1247 1248 1249 1250 1251 1252 1253 1254