________________ 1200 प्राप्नोति न तु मेङः / तथा च मां-मांझ्मेडा ग्रहणमित्युक्तिरसङ्गतैव / अत्रांशेऽ. प्यनित्योऽयम् / 'मिमीमादामित्स्वरस्य' // 4 // 1 // 20 // इत्यत्र सामान्येन ग्रहणार्थ बहुवचनयत्नस्य कृतत्वात् / नित्यत्वे त्वस्य अनेनैव सामान्यग्रहणस्य सिद्धेः किमर्थं स यत्नः क्रियेत / दाग्रहणे यथा-'प्राज्ञश्च // 5 / 172 // इत्यत्र ज्ञारूपसाहचर्याद्दारूपमेव प्रत्याग्रहः कार्यो न तु दासंज्ञां प्रतीत्येव संसाध्य तदन्वेतन्यायबलादविशेषेण षड्भ्योऽपि दारूपेभ्यो डः कृतः / यथा-दुदांग्क् दाम् वाधनप्रदः / दो-वृक्षप्रदः। देंङ्-पुत्रप्रदः। दांक-केदारप्रदः। दैव-भाजनप्रद इति / एतन्न्यायांशाभावे अदाद्यनदाद्योरिति न्यायाहांग्क्दांक्वर्जानां चतुर्णामेव ग्रहणं प्राप्नोति / यद्वा लक्षणप्रतिपदीक्तयोरिति न्यायाहोंदेंङ्दैव्वर्जत्रयाणामेव ग्रहणं स्यात् / अत्रांशे ज्ञापकं 'दाधेसिशदसदोरुः' // 5 // 2 // 36 // इत्यत्र धयतेः पृथगुक्त्या दासंज्ञां प्रत्याग्रहोऽत्र न कार्य इत्येव वक्तुं शक्येऽपि षडपि दारूपा इह गृह्यन्त इत्यप्युक्तिः / धयतेः पृथगुक्तया तावदासंज्ञां प्रत्याग्रहस्य निरासोऽत्र भवतु, दारूपषट्कग्रहस्तु कथं सिद्धयेत् ; अदाद्यनदाद्योरित्यादिन्यायोनां सत्त्वात् / तथापि यद्दारूपाः षड् गृह्यन्त इत्युक्तं तदेतन्न्यायसत्त्वमस्य तदपवादत्वं च स्मृत्वैव / अत्रांशेऽनित्यत्वमस्य न दृश्यते // 78 // श्रुतानुमितयोः श्रीतो विधिबलीयान् // 79 // श्रुतः-सूत्रे साक्षाच्छब्देनोक्तः' अनुमितः-परिभाषया पूर्वानुवृत्ताधिकारादिना वा आरोपितः। श्रुतानुमितयोरिति संवन्धे षष्ठी। विध्योरिति चात्र शेषः। तत्र तु निर्धारणे षष्ठी। श्रुतस्यायं श्रौतः। ततश्च श्रुतानुमितयोः संबन्धिनोयोर्विध्योः संभवतोर्मध्ये श्रुतस्य विधिबलीयानिति स एव क्रियत इत्यर्थः / यथा 'ऋतां क्ङितीर' // 4 / 4 / 160 // तीर्णम् / अत्र श्रुतस्य ऋत एव इर् न तु 'अनेकवर्णः सर्वस्य' // 74 / 107 // इति ऋदन्तधातोः सर्वस्य / यत ऋदन्तत्वमृतामिति धातुविशेषणत्वेन 'विशेषणमन्तः' // 7 / 4 / 113 // इति परिभाषया आरोपितत्वादनुमितमित्युच्यते / ततोऽनुमितस्य ऋदन्तत्वस्य विधिनिर्बलत्वान्न क्रियते / ऋदन्तस्य विधिः कः इति चेत् इरोऽनेकवर्णत्वात् 'अनेकवर्णः' इति परिभाषया यदखण्डस्य ऋदन्तधातोरिर् प्राप्नोति स ऋदन्तत्वस्य विधिरिति / ज्ञापकमस्य 'ऋतामृत' इत्यकृत्वा सूत्रे ऋतामित्येव निर्देशः। तथाहि-ऋतामित्यस्य तावत् ऋदन्तानामिति व्याख्या / इर् चादेशोऽनेकवर्णः / ततश्च 'अनेकवर्णः' इति परिभाषया सर्वस्य ऋदन्तधातोरिर प्राप्नोति / इष्यते तु ऋमात्रस्यैव / तथा च अनेकवर्ण इति परिभाषाया अवकाशनिरासाय ऋतामृत इर् इति निर्देष्टुं युक्तम् / ' सत्यप्येवं ऋतामित्येव यनिर्दिष्टं तज्ञापयतीमं न्यायमिति / अनित्यश्चायम् / तेन 'मनोरौ च वा' // 24 // 61 // इत्यत्र वाशब्दो ङीप्रत्यये पूर्वाधिकारानुमिते संबध्यते न तु श्रुते औकारे / तथा च मनोर्भार्या इति धवयोगे 'मनोरौ च वा' इति वा उयां ङीयोगे औदैतोश्च मनावी, मनायी, मनुरिति त्रैरूप्यं सिद्धम् / औचेत्यस्य वाशब्दसंबन्धने तु ङीप्रत्ययस्य नित्यमेव