________________ 1999 यथा-अश्नोतेः 'षप्यशीभ्याम् ( उणादि० 903 ) इत्यौणादिके तनि अष्टन् ततो बहुव्रोहौ प्रियाष्ट्णः पश्य / उभयत्राणि 'अनोऽस्य' // 21 // 108 // इत्यनो अल्लोपः सिद्धः। इन् सार्थको यथा-दण्डोऽस्यास्ति -- अतोऽनेकस्वरात् ' // 72 // 6 // इतीनि दण्डी / अनर्थको यथा-स्रगस्यास्ति / अस्तपोमायामेधास्रजो विन्' // 72 // 47 // इति विनि स्रग्वी / उभयत्रापि 'इन्हन्पूष०' // 1487 // इति दीर्घः / अस् सार्थको यथा-आप्नोतेः 'आपोऽपाप्ता०' (उणा० 964 ) इत्यौणादिके असि धातोरप्सरादेशे च अप्सराः / अनर्थको यथा-खरस्येव नासिकाऽस्य 'खरखुरान्नासिकाया नस् // 73 // 160 // इति नासिकाया नसादेशे खरणाः। उ. भयत्रापि 'अभ्वादेः०॥ 1 // 4 // 90 // इति दीर्घः / मन् सार्थको यथा-स्यतेः 'स्यतेरीच्च वा' ( उणा० 915) इत्यौणादिके मनि स्यतेरात ईत्त्वे च सीमा। अनर्थको यथा-महतो भावः 'पृथ्वादेरिमन्वा' // 71 / 58 // इति इमनि महिमा, तमतिक्रान्ता अतिमहिमा स्त्री / उभयत्रापि 'मनः // 2414 // इति ङोनिषेधः। उपलक्षणादतुरपि सार्थकवदनर्थकोऽपि गृह्यते / ज्ञापकमस्य अस्लक्षणेऽशे 'अभ्वादेरत्वः' इत्यत्राभ्वादेरिति वचनम् / तद्धि पिण्डं असते पिण्डग्रः इत्यादौ दीर्घनिषेधार्थ'तावदुक्तम् / एतन्न्यायाभावे असतेरसोऽनर्थकत्वेन अर्थवद्ग्रहणे इति न्यायाद्दीर्घत्वस्य प्राप्तिरेव नेति किमर्थं तदुच्येत / किंच अस्य न्यायस्य इन्शे अनित्यत्वात् सुपथी स्त्री इत्यत्र पथिनूशब्दस्यौणादिकत्वादव्युत्पत्तिपक्षे इनोऽनर्थत्वात् 'इन:कच्' // 73 // 170 // इति कच नाभूत् / एवं शेषेष्वपि ज्ञापकमनित्यत्वं चोन्नेयम् // 77 // गामादाग्रहणेष्वविशेषः // 7 // यत्र गा-मा-दा इति सूत्रे निर्दिष्टं तत्र गाङ् गतौ, गैं शब्दे इत्येतो; माक् माने, माङ्कमानशब्दयोः, मेप्रतिदाने इत्येते; दारूपाश्चाविशेषेण गृह्यन्ते / लक्षणप्रतिपदोक्तयोरित्यादिन्यायानां यथायोगमपवादोऽयम् / तथव चाग्रे दर्शयिष्यते / तत्र गाग्रहणे यथा-गातेायतेयङ्लुप्याशिषि जागेयाद् ग्रामं गीतं वा / अत्रोभयोरपि 'गामास्था०' // 4 // 396 // इति ए: सिद्धः। अन्यथा गायतेर्गारूपस्य लाक्षणिकत्वाल्लक्षणप्रतिपदोक्तयोरिति न्यायेन प्रतिपदोक्तगारूपस्य गातेरेव ग्रहणं स्यानतु गायतेः। यद्वा कृत्रिमाकृत्रिमयोरिति न्यायात् कृत्रिमगारूपस्य गायतेरेव ग्रहणं स्थानतु गातेरिति / ज्ञापकमस्य 'गायोऽनुपसर्गादृक् ' // 5 / 1 / 74 // इत्यत्र गातिं निषेधुं गाय इति निर्देशः। अत्रांशे क्वचिदनित्योऽयम् / 'गस्थकः' // 566 // इत्यत्र ग इति सामान्यनिर्देशेऽपि गाडं व्युदस्य गायतेरेव ग्रहणात् / माग्रहणे यथा-मात्योर्मयतेश्च क्तयोर्मितः मितवान् इत्यत्र 'दोसोमास्थ इ.' // 4 / 4 / 11 // इति इः। ज्ञापकमस्य 'ईय॑ञ्जनेऽयपि' // 4497 // इत्यस्य वृत्तौ मा इति मां-मांङ्-मेड ग्रहणमित्युक्तिः / एतन्न्यायांशाभावे मा इति कथने अदाधनदाद्योरिति कृत्रिभाकृत्रिमयोरिति वा न्यायाद् मेंङ एव ग्रहणं प्राप्नोति न तु मात्योः। यहा सक्षप्पप्रतिपदोक्योरिति न्यायात् मात्योरेव ग्रहणं