________________ 1198 स्वरात् खित्युत्तरपदेऽमः' // 32 // 9 // इत्यतोऽनुवर्तमानोत्तरपदाधिकारस्थे 'कालात्तनतर०' // 3 / 2 / 24 // इत्यत्र तनाद्याः प्रत्यया एव गृह्यन्ते न तदन्तनामानि / ज्ञापकमस्योत्तरपदाधिकारस्थे 'नवा खित्कृदन्ते रात्रेः // 32 // 117 // इत्यत्रान्तशब्दनिर्देशः। एतन्न्यायायाभावेऽत्रापि खित्कृतीत्येवोक्ते प्रत्ययेन प्रकृतेराक्षेपात् तदन्तविधिलाभेऽपि किमर्थमन्तशब्दो निर्दिश्येत / अनित्योंऽशोयम् / 'नेन्सिद्धस्थे' // 3 / 2 / 29 // इत्यत्रोत्तरपदाधिकारेऽपि इनन्तस्य ग्रहणात् / तेन स्थण्डिलशायीतीनन्ते शायिनि परे 'तत्पुरुषे कृति' // 32 / 20 // इति प्राप्तायाः सप्तम्यलुपो न निषेधः // 7 // ग्रहणवता नाम्ना न तदन्तविधिः // 76 // निर्देशे सतीति शेषः / साक्षान्नामग्रहणेन यस्य यत्कार्यमूचे तत्कार्य तस्य नाम्नः समासादिना समुदायान्तभूतस्य सतो न स्यादित्यर्थः / यथा सूत्रप्रधानो नडः सूत्रनडस्तस्यापत्यम् ' अत इञ्' // 6 // 3 // 31 // इतीनि अनुशतिकादित्वादुभयपदवृद्धौ सौत्रनाडिः। अत्र सूत्रनडशब्दात् 'नडादिभ्य आयनणू' // 3 // 1 // 53 // इत्यायनण् नाभूत् / ज्ञापकमस्य ' मालेषाकेष्टकस्यान्तेऽपि भारितूलचिते' // 4 // 12 // इत्यत्र अन्तेऽपीति वचनम् / तद्धि मालभारीतिवदुत्पलमालभारीत्यादावपि ह्रस्वसिद्धयर्थ कृतम् / यदि तावदवयवप्राधान्यविवक्षया मालावदुत्पलमालेत्यादेरपि ह्रस्वः स्यात्तर्हि किमर्थं तत्कुर्यात् / परं मालेत्यादिनामग्राहं विहितो ह्रस्व एतन्न्यायादुत्पलमालेत्यादौ न प्राप्नोतीति तद्वचनमावश्यकम्। अनित्यश्चायम्। घ्याश्रये 'प्रियासृजोऽसावपृणद्विडस्ना' इत्यत्र 'प्रियासृजो विडस्नो' इति स्थानद्वये समासान्तगस्यासृजो ‘दन्तपादनासिका०' // 2 // 1 // 101 // इत्यनेन वैकल्पिकस्यासनादेशस्य करणात् / अनित्यत्वे ज्ञापकं तु 'केवलसखिपतेरौः // 14 // 26 // इत्यत्र केवलशब्दः / स हि प्रियसखौ नरपतावित्यादौ डेरौत्वनिषेधार्थः। नित्यत्वे त्यस्य 'सखिपतेरौः' इत्येव सूत्रे कृते तत्र निषेधः सिद्धयतीति किमर्थ केवलशब्दो निर्दिश्येत / ' उपपदविधिषु न तदन्तविधिः' इत्यपि न्यायोऽस्तीति केचित् / यत्रामुकोपपदाद्धातोः अमुकः प्रत्ययः स्यादिति विधीयते तत्र तदुपपदं यदि समासादिना अन्तर्भूतं स्यात्तदा स विधिन स्यात् इति तदर्थः। अयं न्यायः ग्रहणवता नाम्नेति न्याये एव अन्तर्भवति, उपपदविधिष्वप्युपपदानां नामान्येव गृहीत्वा कार्याणामुक्तत्वात् / तथा च 'ग्रहणवता नाम्ना न तदादिविधिः' इत्यपि न्यायो दृश्यते क्वचित् परमेतस्येडक्सूत्रपाठः साक्षात् क्वापि न दृष्ट इत्यसावपि न पृथक् प्रदर्श्यते // 76 // अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति // 77 // अन्-इन्-अस्-मन् इत्येतेषां ग्रहणानि अर्थवता अनर्थकेन च स्वेन तदन्तविधि प्रवर्तयन्तीत्यर्थः / अर्थवग्रहण इत्यस्यापवादोऽयं न्यायः / तत्र अन् सार्थको यथा- राजिधातोः 'उक्षितक्षि०' ( उणा० 500.) इत्यौणादिके अनि राजा, स्त्री चेद्राक्षी-नियां नृतोऽस्वनलेडी राध // इति की। अवर्थको