________________ 1197 सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि // 73 // तदादेशस्येत्यनेन 'भूतपूर्वकस्तद्वदुपचारः' इति न्यायस्यैवायं प्रपञ्चः। यः किल सकारादेशः शकारः स भूतपूर्वकरीत्या सकार एवेति तात्पर्यात् / यथा षस्च गतौ इत्यस्य षस्य 'षः सोष्टयैष्ठिवष्वष्कः' // 2 // 3 // 98 // इत्यनेन से 'सस्य शषौ' // 1 // 3 // 61 // इति सस्य शे यङ्लुपि दिवि 'व्यञ्जनाद्देः' // 4 // 37 // इति तल्लुक्येतन्न्यायात् 'संयोगस्यादौ स्कोलक् // 21188 // इति सकारादेशस्य शस्य लुकि चस्य कत्वे च असासक् इति सिद्धम् / ज्ञापकमस्य 'इनः सात्सोऽश्चः // 1 // 3 // 18 // इत्यत्र श्चवर्जनम् / तद्धि भवान् श्चोततोत्यादौ शस्य त्सत्वाभावार्थम् / एतन्न्यायाभावे इनः सः इति भणनात् त्सत्वप्राप्तिरेव नेति किमर्थ श्चवर्जनं क्रियेत / अनित्यत्वमस्य प्रायो नास्ति // 73 // हस्वदीर्घापदिष्टं कार्य न प्लुतस्य // 74 // हस्वदीर्घस्थाननिष्पन्ने प्लुते भूतपूर्वकस्तद्वदिति न्यायेन हस्वदीर्घनामोचारोक्तकार्याणां प्राप्तौ तनिषेधार्थोऽयं न्यायः / तत्र ह्रस्वापदिष्टं यथा-हे राज३ निह इत्यत्र परत्वान्नित्यत्वाच्च 'दूरादामन्त्र्य० // 7499 // इत्यनेन पूर्व प्लुते कृते तस्मात् परस्य नस्य 'हस्वान् ङ्गन०' // 1327 // इति न द्वित्वम् / अत्रांशे ज्ञापकं-'ह्रस्वात् जन०' इत्यत्र ह्रस्वादिति सामान्योक्तिः। द्वित्वं तावत् अप्लुतरूपात्. ह्रस्वात्परेषां ङणनोमिष्यते न तु प्लुतरूपात् / तथापि सूत्रे ह्रस्वादिति सामान्येन यदुक्तं तदिमं न्यायं ज्ञापयति / दीर्घापदिष्टं यथा'अदीर्घाद्विराम' // 1 // 3 // 32 // इत्यत्र दीर्घवर्जनेऽपि दीर्घस्थाननिष्पन्नप्लुतस्य एतन्न्यायेन वर्जनं न जातम् / तेन च हे गोश्त्रात, हे गोत्रात इत्यत्र दीर्घस्थानीयप्लुतादपि द्वित्वं सिद्धम् / ज्ञापकमस्य 'अनाङ्माङो दीर्घाद्वा छः // 13 // 28 // इत्यनेन सिद्धेऽपि दीर्घस्थाननिष्पन्नात् प्लुतात्परस्य छस्य द्वित्वविकल्पार्थ 'प्लु. ताद्वा' // 1 / 3 / 29 // इति सूत्रकरणम् // तद्धि आगच्छ भो इन्द्रभूते ३च्छत्रमानये-त्यत्र एतन्न्यायेन 'अनाङ्माङो दोर्घात्' इति दो_पदिष्टं कार्य प्लुतस्य न भविष्यतीत्याशंक्य पृथक् कृतम् / एतन्न्यायाभावे 'अनाङ्मा' इत्यनेनैव प्लुताद्वेति सूत्र निष्प्रयोजनमेव / अनित्यत्वमस्य नास्ति // 74 // संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य / / 7 / / संज्ञेति संज्ञासूत्राणि / प्रत्ययः किल प्रकृतिमाक्षिपति, प्रकृति विना प्रत्ययानुत्पत्तरित्यतः प्रत्ययमात्रग्रहणेनापि तदन्तग्रहणे प्राप्ते तनिषेधार्थोऽयं न्यायः। तत्र संज्ञाधिकारे यथा-'स्त्यादिविभक्तिः' // 1 // 1 // 19 // इत्यत्र स्त्याद्यन्तं विभक्तिरिति नार्थः किंतु स्त्यादिः प्रत्यय एव विभक्तिसंज्ञ इत्यर्थः / ज्ञापकमस्य सं. शाधिकारस्थे 'तदन्तं पदम् ' // 11 // 20 // इत्यत्र अन्तशब्दनिर्देशः। एतन्न्यायाभावे 'सापदम्' इत्युक्तावपि प्रत्ययेन प्रकृतेराक्षेपात् तदन्तविधिलामे किमर्थमन्तशब्दो निर्दिश्येत / अनित्यत्वमस्यात्रांशे न दृश्यते / ' उत्तरपदाधिकारे यथा-'न नाम्येक