________________ 12.1 भवनात् मनावी मनायी, मन्वी इति त्रैरूप्यं स्यात् // 79 // निर्दिश्यमानस्यैवादेशाः स्युः // 80 // यथा-'यस्वरे पादः // 21 / 102 // इत्यत्र पाद इत्यस्य तावत् पादन्तस्येति व्याख्या / पादन्तस्येत्येतञ्चाधिकृतस्य नाम्न इत्यस्य विशेषणम् / ततश्च पद् इत्यादेशस्यानेकवर्णत्वात् 'षष्ठयान्त्यस्य' // 74 / 106 // इति परिभाषां बाधित्वा ‘अनेकवर्णः' इत्यनेन पादन्तस्य नाम्नः सर्वस्य पद्भावप्राप्तौ न्यायेनानेन पाद इत्येतावत एव स्यात् / सूत्रे तस्यैव निर्देशात् / यथा द्वौ पादावस्य द्विपात् 'पात्पादस्याहस्त्यादेः // 7 // 3 // 148 // इत्यनेन पादस्य पाद्भावः / ततस्तृतीयायां 'यस्वरे पाद:०' // 2 // 1 // 102 // इत्यनेन पाद् इत्येतावत एव पद्भावे द्विपदा इति / अयं न्यायः पूर्वस्यैव प्रपञ्चः // 8 // अन्तरङ्गानपि विधीन् यबादेशो बाधते // 8 // प्रत्ययाश्रितत्वात् पदद्वयापेक्षत्वाच्च बहिरङ्गोऽपीति शेषः / यथा प्रशम्य इत्यत्र 'अहन्पञ्चमस्य विकिति' // 41107 // इति दीर्घत्वं प्रकृत्याश्रितत्वादेकपदापेक्षत्वाच्चान्तरङ्गमपि बाधित्वा पूर्व यप् / पश्चात्तु धुडादिप्रत्ययाभावान्न दीर्घत्वम् / ज्ञापकमस्य प्रजग्ध्येति सिद्धयै 'यपि चादो जग्ध् ' // 4 / 4 / 16 // इत्यत्र यपि चेति वचनम् / यदि क्त्वि परे जग्धादेशः, पश्चाच्च यप् क्रियते तदाऽपि प्रजग्ध्येति सिद्धयत्येव तथापि यद् यपि चेति वचनं तदेतन्न्यायेन यपः सर्वकार्येभ्यः पूर्व भवनादेव / अनित्यतास्य न दृश्यते // 81 // . सकृद्गते स्पः यद् बाधितं तद् बाधितमेव // 82 // गते इति धातूनामनेकार्थत्वाजाते, गत्यर्था इति न्यायाज्झाते इति वा / द्वयोविंध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रोपनिपात: स्पर्द्धः / द्वयोः सूत्रयोः स्पर्द्ध सति यत् केनापि हेतुना प्रथम बाधितं तद् बाधितमेवेति बाधकसूत्रप्रवृत्त्यनन्तरमपि न प्रवर्तत इत्यर्थः / यथा द्वयोः कुलयोः इत्यत्र द्वि ओस् इति स्थिते आदेशादागम इति न्यायात् प्रथमं 'अनामस्वरे०' // 1 / 4 / 64 // इति नोऽन्तः प्राप्तः स च परत्वादन्तरङ्गत्वाच्च 'आद्वेरः // 2 // 1142 // इत्यनेन बाधितस्ततस्तस्मिन् कृते 'एबहुस्भोसि० // 14 // 4 // इत्येत्वे च कृते पुनः प्राप्तोऽपि न स्यात। ज्ञापकमस्य 'उदच. उदीच' // 21103 // इत्यत्र णिवर्जनम् / तद्धि उदञ्चमाचष्टे' इति णौ उदयतीति रूपसिद्धयर्थम् / तद्धि उदीचादेशकरणान्तरं यदि 'त्रन्त्यस्वरादेः॥ 7443 // इत्यन्त्यस्वरादिलक् प्रवर्त्यते तदाऽपि सिद्धयत्येव / परं विशेषविहितत्वेनान्त्यस्वरादिलोपात्प्रागेवोदीचादेशे पश्चाच्चैतन्न्यायादन्त्यस्वरादिलुकोऽप्रवृत्तेरुदोचयतीत्येव स्यान्न तु उदयतीति णिवर्जनं कृतम् / तथा च उदीचादेशं विनाऽन्त्यस्वरादिलुकैवोदयतीति सिद्धम्। अनित्यश्चायम् / प्रियतिसृणः कुलस्येस्यत्र आगमात् सर्वादेशः इति न्यायेन प्रथम बाधितस्यापि नागमस्य तिस्रादेशानन्तरं पुनः करणात् // 82 // . 151