________________ 'अमद्रस्य दिशः' // 74 / 16 // इति सूत्राभ्यां वृद्धिविधानमेव / ग्रहमवतेति न्यायेन सुमगधादिशब्देभ्यो जनपदान्तत्वेन णित्प्रत्यय एव न भविष्यतीति आभ्यां वृद्धिकरणस्य निर्विषयत्वमेव / अत एव चायं न्यायो ग्रहणवतेति न्यायस्यापवादः / एवमुत्तरोऽपि // 2 // ऋतो:द्धिमद्विधाववयवेभ्यः // 3 // यस्मिन् परे वृद्धिप्राप्तिः स णित्प्रत्ययो वृद्धिमानिह गृह्यते / ऋतुवाचकाद् णित्प्रत्ययस्य विधौ कर्तव्ये तदवयवपूर्वादृत्वन्तादपि स विधिः स्यात् / तेन वर्षासु भवं धार्षिकमित्यत्र यथा केवलाद्वर्षाशब्दाद् 'वर्षाकालेभ्यः' // 6 // 3 // 80 // इतीकण भवति तथा पूर्वाश्च ताः वर्षाश्च पूर्ववर्षाः तासु भवं पूर्ववार्षिकमित्यत्र वर्षान्तादपि वर्षाकालेभ्य इतोकण सिद्धयति / ज्ञापकमस्य 'अंशादृतोः' // 7 / 4 / 14 // इत्यनेनांशवाचिनः परस्य ऋतुमद्वाच्युत्तरपदस्य वृद्धिविधानमेव / अंशाहतोरित्यनेनोत्तरपदवृद्धिस्तावद् वर्षाकालेभ्य इत्यादिसूत्रविहिते णित्प्रत्यये परे एव भवति, स च णित्प्रत्ययो यदि पूर्ववर्षादिशब्देभ्य ऋत्वन्तत्वेन ग्रहणवतेतिन्यायानायास्यत्येवेति अंशाटतोरिति वृद्धिविधानं व्यर्थ सज्ञापयतीमं न्यायम् // 3 // - स्वरस्य इस्वदीर्घप्लुताः // 4 // अयं भावः-हस्वाद्यादेशाः स्वरस्यैव स्युनतु व्यञ्जनस्य / तेन सह श्रिया वर्तते सश्रि कुलमित्यत्र ईतः 'क्लीबे' // 2 / 4 / 97 // इत्यनेन ह्रस्वो यथा भवति तथा तत् इत्यत्र तकारस्य लवर्णतवर्गलसा दन्त्या इत्यासन्नत्वेन ह्रस्वः प्राप्तोऽपि व्यञ्जनत्वान्न भवति / तथा च प्रत्यञ्चन्तीति क्विपि तान् प्रतीचः इत्यत्र -- अच्च प्राग् दीर्घश्च' // 2 / 1 / 104 // इत्यनेनाचश्चत्वे प्राक्स्थितस्य इतो यथा दीर्घस्तथा दृषदमञ्चन्तीति विपि तान् दृषञ्चः इत्यत्र पूक्तिसूत्रेणाचश्चत्वे प्राक्स्थितदकारस्य पूर्ववदासन्नत्वेऽपि व्यञ्जनत्वान्न दीर्घप्राप्तिः / तथैव च है चैत्र 3 पहि; अत्र अकारस्य 'दुरावामन्त्र्यस्य' // 7 / 4 / 99 // इत्यनेन प्लुतत्वं यथा तथान्यत्र कुत्रापि व्यञ्जनस्य न। ज्ञापकमस्य न्यायस्य ह्रस्वाद्यादेशविधायके तत्तद्विधौ प्रायःस्थान्यनुपादानम् / स्थानिविशेषानुक्त्या स्वरवद् व्यञ्जनस्यापि ह्रस्वाद्यादेशप्रसङ्गे प्रतिषेधार्थोऽयं न्यायः // 4 // आधन्तवदेकस्मिन् / / 5 // अयमाशयः-यत्रैकमेव वर्णाद्यस्ति कार्य तु तदादिकस्य तदन्तस्य वोक्तं तत्र तदेवैकं वर्णाद्यादित्वेनान्तत्वेन प्रकल्प्य तत्तत् कार्य करणीयम् / तत्रादित्वेन प्रकल्पनं यथा-ईहाञ्चके इत्यादौ धातोर्गुरुनाम्यादित्वेन परोक्षायां 'गुरुनाम्यादे'-३।४।४९ // इत्यनेनाम् भवति यथा तथैव ईडूच् गतावित्यस्य परोक्षायामयाञ्चक्रे इत्यादावपि नामिमात्रस्यैव नाम्यादित्वकल्पनयाम् क्रियते / ज्ञापकम