________________ 1168 इत्यादिदृष्टान्ते रूढत्वेऽप्यत्र तु नीयते सन्दिग्धोऽर्थो निर्णयमेभिरिति न्यायाःस्वेष्टसंसाधनानुगुणा युक्तय इत्येवार्थः स्वीक्रियते / अन्यश्च स्पष्टम् / अथ प्रतिक्षातमुपक्रम्यते स्वं रूपं शन्दस्याशब्दसंज्ञा // 1 // सर्वत्र व्याकरणसूत्रे शब्दस्य स्वं रूपं ग्राह्यम् / अशब्दसंज्ञा-यदि तेन शब्देन संशाकरणं न स्यात् / यदि तेन शब्देन काचित्संज्ञा कृता चेतर्हि रूपमनादृत्य यावतां सा संज्ञा तावतामेव ग्रहणम् / यथा-'समः ख्यः // 5 / 1 / 77 // इत्यत्र ख्यांधातुश्चक्षादेशश्चेति द्विधाऽपि ख्या इति रूपमेव गृद्यते ख्येति संज्ञाया अभावात् / तेन गाः संख्याति, संचष्टे वेत्युभयथापि गोसंख्य इत्यादौ डः सिद्धः। अन्यथा तु गौणमुख्ययोः, कृत्रिमाकृत्रिमयोति न्यायाभ्यां स्वाभाविकधातोः ख्यांक इत्यस्मादेव कृत्रिमाञ्चक्षादेशादेव वा डः स्यात्। अतएव गौणमु. ख्ययोरित्यादिन्यायानामपवादत्वमस्येत्यग्रे निवेदयिष्यते / 'उपसर्गादः किः' // 5 / 3 / 87 // इत्यादौ तु दासंज्ञा धातवो गृह्यन्ते देतिसंज्ञासद्भावात् / तेन आदिरित्यत्र यथा आधिरित्यत्रापि किः सिद्धः। स्वं रूपं शब्दस्येत्यंशस्य ज्ञापकं 'नदीभिर्नाग्नि' // 3 / 1 / 27 // इत्यत्र बहुवचनम् / एकवचने हि न्यायेनानेन स्वरूपस्यैव केवलस्य नदीरूपस्य ग्रहणं प्रसज्येत नतु नदीविशेषाणामपि। ततश्च 'संख्या समाहारे' // 31 // 28 // इत्युत्तरसूत्रेण पञ्चानां नदीनां समाहारः पञ्चनदमित्यत्रैवाव्ययीभावसमासः स्यान्न तु द्वयोर्यमुनयोः समाहारो बियमुनमित्यादिषु। अशब्दसंज्ञेत्यंशस्य च ज्ञापकं 'स्वरादुपसर्गादस्तिकित्यधः' // 4 // 4 // 9 // इत्यत्र धावर्जनम्। यदि हि स्वं रूपमित्यनेन 'द' इति दारूपमेव गृह्यते तत्र धाप्रसङ्ग एव नास्तीति किमर्थं धावर्जनम् / अस्य चाद्योंऽशोऽनित्यः, तेन 'उत्स्वरायुजेरयतत्पात्रे // 3 / 3 / 26 // इत्यत्र 'युजादेर्न वा // 3 / 4 / 18 // इत्यनेन विकल्पितणिचश्चौरादिकयुजेणिचोऽभावपक्षे युजिरूपसंभवेऽपि न ग्रहणम् / अनित्यताशापकं तु 'पूक्लिशिभ्यो न वा' // 4 / 4 / 45 // इत्यत्र बहुवचनम् / तद्धि क्लिश्यति क्लिश्नात्योहणार्थ निर्दिष्टम् / एतन्न्यायाद्यांशस्य नित्यत्वे तु तयोरुभयोरपि ग्रहणं सेत्स्यतीति कुतो बहुवचननिर्देशः। द्वितीयांशोऽप्यनित्यस्तेन 'प्राज्ज्ञश्च' // 5 / 1179 // इत्यत्र 'दश्चाई // 5 / 1178 // इति पूर्वसूत्राद्द इत्यनुवृत्त्या दासंज्ञकवददासंज्ञकयोरपि दादैवोर्ग्रहणं सिद्धम् / अस्यानित्यत्वे ज्ञापकं 'प्राज्ञश्चे'त्यस्य वृत्तौ द इति दारूपमेव // 1 // मुसद्धिदिक्शब्देभ्यो जनपदस्य // 2 // अयमर्थः-जनपदवाचिनो यो विधिरुक्तः स सुसर्वार्द्धदिक्शब्दपूर्वस्य जनपदान्तस्यापि स्यात् / यथा मगधेषु भवो मागधक इत्यादौ केवलाजनपदवाचिशब्दादिव, सुमगधेषु भवः सुमागध इत्यादौ सुपूर्वाजनपदान्तादपि 'बहुविषयेभ्यः' // 6 // 3 // 45 // इत्यक स्यादेव / ज्ञापकमस्य 'सुसर्वा द्राष्ट्रस्य // 7 // 4 // 15 //