Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 137 कार्य एवं नान्यत्रापीत्यकार्ये खपुष्पादाविति / इतिशब्दो हेत्वर्थे / स्यादवधारणाद्धेतोरित्यर्थः / एवं सति को दोप इति चेत् ? उच्यते-ततश्च न खपुष्पमसदिति प्रसक्तं, दृष्टेष्टविरुद्धं सत्त्वं खपुष्पस्येत्यर्थः / तथा चेत्यादि, यावन्नाममात्रे विसंवादः, एवं च कृत्वा कार्यमसत् खरविषाणं सदिति सङ्गत्या सतोऽसदित्यसतश्च सदिति संज्ञा क्रियते / कार्यासत्त्वमिति, ततः खरविषाणविपरीता ये निवृत्ता घटादयस्तेषां घटादीनामसत्त्वेन तुल्यं कार्यस्यासत्त्वं सतामेवासत्त्वेन तुल्यं विपरीत नाममात्रमग्नेर्मङ्गलनामवत् / न वा च कश्चिदर्थस्य सत्त्वे विसंवादोऽसत्कार्यमिति / किं चान्यत्-कार्यसत्त्वनिवृत्त्यैकान्तत्यागाच स्ववचनादिविरोधापत्तिकार्यसत्त्वनिवृत्तिः, कार्यसत्त्वं तदवधारणमेवातः कायमेवासदिति / तस्य त्यागोऽनन्तरोक्तविधिना प्राप्तस्ततश्च कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधापत्तिश्च / स्ववचनविरोधस्तावत् तदेव कार्यमसदित्युक्त्वा तस्यैवकारणसामर्थ्यात् सत्त्वापादनात् तदेव सत् तदेवासदिति ब्रुवतः। अथवा यदि कार्य प्रथमं सदथासत् कथं कार्य क्रियते ? / घटो घटतया व्यज्यते दीप्तमेव क्रियत इति वक्ष्यति / तथाभ्युपगमादभ्युपगमविरोधः / तथा लोके प्रसिद्धत्वाल्लोकविरोधः / तत्त्व एव तथाभूतेरनुमानविरोधः / तथा मृत्पिण्डघटादिकारणकार्यदर्शनात् प्रत्यक्षविरोधः। एवं तावत् कार्यमेव सन्न खपुष्पादीत्यवधारणदोषः / कार्यमेवासन्न कारणमित्यस्थावधारणस्य प्रतिपक्षवादापत्तेः / अथैवमवधार्यते कार्यमसदेवेति / तत्रापि 'यत एवकारस्ततोऽन्यत्रावधारणमित्यसत्समीप एवकारात् कार्यमसत्त्वेनावधायते। कार्य न यदा सत् / असत् तु कार्य वा स्यात् खपुष्पादिवेत्येवमसत् , एवकारे त्वसदनवधृते पूर्वो दोषो योऽसत्त्वाविशेषादित्यादिः / स एव कार्यखपुष्पयोरसत्त्वे आयत्यामाविर्भावानाविर्भावकृतो विशेषो न स्यादित्यविशेषापत्तिदोषः प्रागुक्तः स एवात्रापि / अत्रोच्यतेत्यादि अविशेषापत्तिदोषस्य च परिहारार्थमथोच्यते तत्त्वयेति परमार्थमाशङ्कते-कथमसत्त्वादेव तयोः कार्यखपुष्पयोः कारणकाले विशेषासम्भवः / यथा खपुष्पमसत् तथा कारणकाले कार्यमप्येसदेवेति नानयोः कश्चिद्विशेषोऽस्ति / न ह्यसतो निरुपाख्यस्य खपुष्पस्य वृत्तफलकेसराद्यवयवसौरभादिविशेषाः खरविपाणकुण्ठतीक्ष्णत्वादिभ्यो भिन्नलक्षणाः सन्ति, उभयेषां अवस्तुत्वान्निरुपाख्यत्वाचेत्यस्मादविशेषात् कारणकाले यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति / ततः किं परिहतमिति चेन्नावधारणकृतो दोषः परिहतो भवति / कार्यमेवासदसदेव कार्यमित्यवधार्यमाणे खपुष्पसत्त्वं, कार्यखपुष्पयोरविशेषः / इत्येतो 1 कार्यमेव क-ख। 2 चान्यस्य ग। ३°दिति वेग। 4 कार्यनयमा°ग। 5 मथ ग। 6 दोषः / इत्यवधारणकृतो दोषःग। न० च० 18
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384