Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलकृतम् / 303 इंदियत्ताए, मणत्ताए, आणा(ण)-पाणत्ताए // " - [भगवतीसूत्रे श. 12, उ. 7] इत्याद्यर्थे(द्यार्षे) ऐक्यापत्तौ ज्ञापकं सर्वज्ञोक्तत्वात् / ___ अत्रानुमानम्- तदेव तदिति प्रतिज्ञा / मातृत्वादिभावेन यद् भवति, शरीरादिभावेन च(वा) तदेकैकं सर्वरूपमित्यर्थः / तत्परमार्थत्वात् तद्वत् / एतदुक्तं भवतितत्तत्स्वरूपत्वे (पापत्ते)भवनपरमार्थत्वात् तत्तत्स्वरूपवत् / एवमितरमपि पक्षीकृत्य साध्यम् / यत्स्वरूपमिदं भवति कर्पूरं शरीरमना(ना)दि वा तत्तदेवेत्यर्थः / यच्च यदेव न भवति, तत् परमार्थ[तो न भवति], यथा खपुष्पं, खरविषाणं वा / भवन्मत्याऽन्यत् तत् तदन्यस्वरूपापत्तेः स्यात् / आह- 'यस्यान्तरङ्गस्य तत्त्वं स्याद् बहिरङ्गस्य चान्यत्वम्' इति / तदेव ह्यन्यत्वा[भि]मतमसाभिस्तस्यैव [तद् ] रूपमिति साध्यते, तस्मानास्त्यन्यथात्वं न चासिद्धं तत्परमार्थतत्वमिति / अभ्युपेत्याप्यन्यथात्वेऽपि तदनतिरेकात्मकत्वात् तदेव तदिति वर्तते / तस्मात् तस्य वाऽनतिरेकः, स आत्माऽस्येति तदनतिरेकात्मकं यद् य[दनतिरेकात्मकमन्यथात्वेऽपि तदेव तद् दृश्यते। किमिव ? तन्तु- यज्ञोपवीतवत्। तन्त्वनतिरेकात्मकत्वाद् यज्ञोपवीतस्य चलितस्यान्यथात्वेऽपि तन्त्वात्मकत्वमेव / तथा सुखादिषु भावनीयम् / तदनतिरेकात्मकत्वं च भावितार्थमेव 'ते' चेव ते पुग्गला सुब्भिगंधत्ताए' इत्यादिना / __ यथा चात्रेत्यादि / एवं च तदेव तदिति सर्व सर्वस्य बाह्यस्य परिणम्यस्य परिणमयितुश्च तत्त्वम् / योऽधिगुणस्य ताद्गुण्यं प्रतिपद्यते स परिणामी, योऽधिगुणो न्यूनगुणत्वमापादयति, स परिणामक इत्युच्यते व्यवहारतः, निश्चयतश्च (तस्तु) परिणामि-परिणामकावाविर्भाव-तिरोभावमात्रभेदौ स्वत एवेत्यस्य नयस्य दर्शनम् / परिणामश्च द्र[व्य]मात्रम् / 'द्रव्यं च भव्ये (पा०) यद् यद् भवति स परमार्थोऽस्येति तदप्येवं(तथेदं) भावितं क्षीरादेर्यावच्च घटादेस्तावद् बोद्धव्यम् / तथाऽधिकृतस्याध्यात्मिकस्य कर्म-कर्मिसंज्ञस्य शरीर-शरीरिसंज्ञस्य वा भावनार्थमुपनयति-तथाऽऽत्म-कर्मणोरपीति / तद् व्याचष्टे- आत्मा परिणामयतीत्यादिना, यावद् अनादित्वमेकत्वमिति / परिणम्य परिणमकयोरनियतदेश-काल-भावादिरूपतां दर्शयति / तथाभवनसामर्थ्याद् गति-जात्यादिना पुद्गलानिति उपयोगलक्षण आत्मा, गति-जाति-शरीराङ्गोपाङ्गाद्यनुभवनोपयोगात्मतया तान् पुद्गलान् परिणमयतीति आत्मनः परिणमकत्वम् , तेषां परिणम्यत्वम् / पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेनेति मिथ्यादर्शनाविरति-प्रमाद-कषाय-योग-सुख-दुःखोदयं(य-)क्षयोपशमादिभावेन परिणमयन्ति, तद्भावेनात्मा परिणम्यते / स च मिथ्यादर्शनोदयादिभावो भवभ्रान्तिहेतुः, तद्वशस्य संसरणात् / एतस्य कर्म-कर्मिद्वयस्थान्योन्यपरिणा 1 त एव ते पुद्गलाः सुरभिगन्धतया /
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384