Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 354
________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / पुरुषकारकारणैकान्तिन आहुस्तदपि सर्वमसम्बद्धं परस्परि]दूषितत्वादिति / तदुभयमिदानी नैकट्येनाप्यसम्बद्धमिति प्रतिपादि(दयि)तुकामः प्रश्नयति- कथमसम्बद्धमिति परवचनेन स्ववचनेन वा एकत्वात् त(द्व)योः पृथक् कर्म-पुरुषकाराभावादेवासम्बद्धमिति / तत् प्रतिपादयिष्यन्नाह- यस्मान्न शुभमशुभं वेत्यादि, यावत् काय इति / अयं तावद् दृश्यमानः काय[:], पुरुषो वाऽस्तु, यत् तेऽभिरुचितं, न मे कश्चिदत्र पक्षपातः। तच्च यस्मान्न किञ्चिदत्र शुभमेवाशुभमेव वा / बाह्यमपि कायाद् भिन्नमभिमतं रूपादीष्टस्य सुखस्य कारणं चित्रमयूर-स्रक-चन्दन-भ्रमररुतादि, अनिष्टस्य वा दुःखस्यातिविवर्ण-हुण्डसंस्थानाकारकण्टक-शिवारुतादि / सर्वमप्येतदिष्टकारणमप्यनिष्टकारणमपि शुभमप्यशुभमपीति गृहाण द्रव्य-क्षेत्र-काल-भाव पुरुषान्तरसंयोगविशेषाश्रय-परिणामविशेषापत्तेः / सुरभि-मधुर-सुखस्पर्श-सुरूप-सुशब्देतरभावमुपलभ्यते / अभक्षित-भक्षित-मोदकवत्, पक्कापक्काम्रफलवत् , पद्मकेसर-नालवत् , जाताजात-विपन्नाविपन्न-सुराऽऽदिवत् , स्वस्थास्वस्थ-स्त्री-पुरुष-गीत-रुतादिवत् / यथोक्तमार्षे ते चेव पोग्गला सुन्भिगंधत्ताए परिणमंति, ते चेव ते पोग्गला दुब्भिगंधत्ताए परिणमंति" इत्यादि। तस्मान्न शुभमशुभं वैकान्तेन किञ्चिदस्ति भिन्नजाति / किं तर्हि ? तदेवाशुभं [शुभं], तत एव चेष्टकारणमनिष्टकारणं वा(च) यथा त्रिदोषनमोदकादिप्रमाणाप्रमाण-कालाकाल[]हारितमिति स्वस्थ-सर्पदष्टाहारितविषवद् वा / तथैक एव ह्ययं पुद्गलकायः पुद्गलनिरुक्तिकः कायः शरीरं चितत्वात् , रोगादि-दुःखनिवासत्वाद् वा सर्वोऽपि बाह्याभ्यन्तरो मूर्तद्रव्यसङ्घातः कायो रूपादिसातत्वात् परमाणोरपि / पुद्गलस्य, पुद्गलस्येव वा काय इति विग्रह-समासौ / अथवा पृथक्परिकल्पनयाऽनया किमिन्द्रियप्रत्यक्षम(क्षा)भिमतः शरीराख्यः पुद्गलकायः स्वसंवेद्यज्ञानात्मकः क्रियाऽऽदि-लिङ्गानुमति(मित) आत्म[कायो] वा सोऽयमेक एव / न ह्यत्र काचिद् भेदबुद्धिः कार्या, बन्धपरिणामैक्यापत्तेरेतन्नयदर्शनादेक एव शुभाशुभाति(दि)धर्मेति साध्यस्य कायस्य वक्ष्यमाणाहारदृष्टान्तसाम्यमापाद्य हेतुत्वेन तत्साधर्म्यमाह- भोक्तृ-भोग्यात्मकविपरिणामवृत्तित्वादिति / यदि पुरुषकारवादिमतेन भोक्ता, अथापि कर्मवादिमतेन भोग्यस्तस्मात् कायो भोक्तभोग्यात्मक स्तस्य विपरिणामो वृत्तिरस्येति कायः सम्बद्ध्यते / भोग्यस्य भोक्तुळ विपरिणाम इति / शुक्र-शोणितं जनन्याहृतान्नरसादि चाद्युत्तरकारणमस्य शरीरस्य 1 त एव पुद्गलाः सुरभिगन्धतया परिणमन्ति / त एव ते पुद्गला दुरभिगन्धतया परिणमन्ति //

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384