Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 358
________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / सत्यम् 'द्रव्यं च भव्ये (पा. 5 / 3 / 104) द्रवति भवतीति / कथं पुनस्तद् द्रव्यमभिन्नं सद् रूपादिभेदेन भवतीति चेत्, चक्षुरादिप्रत्ययोपयोगापदेशेन भवति, चक्षुरादिप्रत्यया इत्यधिपत्यालम्बनहेतुसमनन्तरप्रत्ययास्ते निमित्तमस्योपयोगस्य ज्ञान-दर्शनाख्यस्य स चक्षुरादिप्रत्ययोपयोगस्तदपदेशेन रूपादि भवति / ज्ञानापदेशेन चक्षुरूपादिप्रत्ययेनेत्यर्थः / यथोक्तम् "रूपालोक-मनस्कार-चक्षुर्यः सम्प्रवर्तते / विज्ञानं मणि-सूर्यांशु-गोशकृद्भ्य इवानलः // " इति / __दृष्टान्तो भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवत् / यथैक एव पुरुषोऽनेकसम्बन्धे(न्धि)स्त्री-पुरुषापेक्षापदेशविशिष्टो भागिनेयो मातुलो भ्राता पतिः पिता देवरः श्वशुरः पुत्रो भ्रातृव्य इत्यादिर्भवति / देवदत्त एक इत्येव च सत्यस्तथा द्रव्यमेकमेव रूपादि भवति, चक्षुराद्यपदेशादिति साधूक्तम्- एकमेव सर्वात्मकमिति / _एवमुपयोगात्मकल्वं पुद्गलस्य रूपादिप्रभेदस्योक्तम् / इदानीमुपयोगस्यापि पौद्गलात्म्यमुच्यते- यचोपयोगखतत्त्वं मत्यादि / तदपि पुद्गलात्मतत्त्वमिति पक्षः / कस्मात् ? रूपाद्यात्मकत्वात् अन्धा(वा)दिवत् / स धुपयोगलक्षण आत्मा परमाणु-यणुक-त्र्यणुकादिषु रूपाद्यात्मकेषु पुद्गलेषूपयुज्यते, कृत्स्नो व्याप्रियते / साव्वोत्म्येन व्याप्त उपयुक्तः समाप्त इत्यर्थः / रूपाद्यात्मक एवाप्रदेश-सङ्ख्येयासङ्ख्येयानन्तप्रदेशपुद्गलवत् तदुपयोगात् तत्परिणामात् तदेव तदिति पूर्वोक्तन्यायाच्च / यद्येवं रूपाद्यात्मकत्वमात्मनो नाभ्युपगम्यतेऽसङ्ख्यातप्रदेशस्यापि रूपादिमदेकद्रव्योपयोगे तादात्म्यं ग्राह्योपातीनि( ह्ये यातीति)। ततोऽसङ्ख्यातप्रदेशोऽपि सर्वात्मना सार्वात्म्येन सर्वैः प्रदेशैः ग्राह्ये द्रव्ये उपयोगमयान्-उपयोगमगच्छन्ननुपयुज्यमानोऽचेतन एव, पटानुपयुज्यमानघटादिवत् स्यादिति सम्भन्त्स्यते / कथं पुनरुपयोगं यायात् मृत्पिण्डः ? शिवकादितायामिव यथा मृत्पिण्डः कृत्स्नः शिवकादिभावे सार्वात्म्येन व्यापारं गच्छति, तथा यदि न गच्छेदात्मना। ततस्तादात्म्यमप्रतिपा(प)द्यमानः सोऽचेतन एव स्यात् पटेऽनुपयुज्यमानघटादिवदिति यथाक्रमं वैधर्येण साधर्येण च दृष्टान्तौ, चेतनो झुपयोगलक्षणस्तदभावादचेतनः स्यादिति / एष दोषो रूपाद्यात्मकत्वाभावे स्यादात्मन उपयोगलक्षणस्य / तस्मात् सिद्धं रूपाद्यात्मकत्वमात्मन उपयोगात्मकत्वात् / अतः पुद्गलस्वतत्त्वमेव मत्यादीति साधूक्तम् / इतश्च- आत्मा पुद्गलस्वतत्त्व एव आत्मस्वतत्त्वेत्यादि, यावद् भाव्या(वा)व्यतिरिक्तरूपत्वाच आत्मनः स्वतत्त्वमौदयिको भावः / उदये भव औदयिकः, कस्य ? न० च० 39

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384