Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 365
________________ 312 नयचक्रम् / [विधिनियमारः व्यावृत्तत्वात् , खपुष्पवत् / तस्माचावस्तुत्वं स्व-परतो व्यावृत्तत्वात् , खपुष्पवदेवेति / तत आह- असत्त्वादिति / तस्मात् स्थितमेतदसत्त्वप्रसङ्गात् प्रसज्यप्रतिषेधाभावाच्च प्रागभावादिव्यावृत्तेरन्यत्वमर्थो बालः कुमारो न भवतीत्यादिषु / तत उपसंह्रियते मौल एवान्यत्वाच्च तत्त्व एव प्रागभावादिव्यावृत्तेर्वाल-कुमारादिरूपादिवत् तत्त्वमेव चेतनेति / सा पुनरिदानी चेतना किंवरूपेति वाच्या ? उच्यते-ज्ञान-दर्शनादि-संवेदना साकारानाकारोपयोगी समभेदो ज्ञान-दर्शनग्रहणेन गृहीतौ / आदिग्रहणेन सुख-दुःख-राग-द्वेष-भयादि-संवेदना गृहीता / साऽपि च निवृत्त्युपकरणलब्धितत्त्व उपयोगात्मा इन्द्रियाणां चक्षुरादीनां निवृत्तिः पक्ष्मपुट-कृष्णसारादित्वेन निष्पत्तिः / उपकरणं तु मसूरकातिमुक्तक-कदम्ब-क्षुरप्राग(घ)नेकाकारतया प्रदेशानां निष्पत्तिः / एतन्नयदर्शनेन वाऽजन-पादाभ्यङ्ग-प्रदीपाद्यप्युपकारकमुपलब्धेः सर्वमुपकरणं लब्धिः, पुननिवृत्तेः प्राक् पश्चाचात्मना पूर्वोपात्तं तद्योग्यनामकर्मोदय द्रव्यम् / ज्ञान-दर्शनावरणयोवीर्यान्तरायस्य च क्षय-क्षयोपशमौ तत्तत्त्व उपयोगो ज्ञान-दर्शनवतत्त्वव्यक्तिः स एव चात्मा, ततः किमिति चेत्, अतो रूपादिमदप्यात्मा यदेतद् रूप-रसादिधर्म-मूर्त-पौद्ल माध्यात्मिकमिन्द्रिय-पाण्याद्यवयवात्मकं शरीरं तदप्यात्मैव / कुतः ? चेतनत्वात् , चेतनत्वं चास्यानन्तरं प्रतिपादितम् / किमिव ? अभिमतात्मवत् / यथा शुद्धोपयोगलक्षणः केवली आत्मा चेतनवत्वात् , तथेन्द्रियाद्यपि रूपादिमदिति / तत् समर्थयति- तस्यैव तथाभूतत्वादामुक्तेः स एव हि द्रव्यकेवली संसारावस्थ उपयोगात्मा तथाभूतो निरावरण-ज्ञान-दर्शनसंवृत्तोऽभिमतात्मा, तस्मादामुक्तेस्तस्यैव तथाभूतत्वादिहापि संसारे स एवेति / रूपादिमतः पुरुषस्य मुक्तस्य चोपयोगात्मकत्वादविशेष एव / एवं च कृत्वा ज्ञानं न ज्ञानं, पुद्गलात्मकत्वाद् रूपादिवत् / पुद्गलात्मकत्वं च ज्ञानस्यानन्तरं प्रतिपादितमज्ञानमपि च ज्ञानं तत एव तद्वत् चेतनोऽचेतनः, अचेतनश्वेतन इति अनेकधा सर्वसर्वात्मकतां भावयति इत्यादिग्रहणात् , निदर्शनमात्रमेतद् भावितम् / अनया दिशा सर्वत्र भावनीयमिति / आह- आर्षोक्तेषु नयेषु कलमोऽयम् ? इति / अत्रोच्यते- एवं चायं सङ्ग्रहेषु सङ्ग्रहः शतविकल्पः / “एकेको य सतविधो सत्तनयसता हवंति एमेव / " (आव. नि. 2264) इति वचनात् तेषु सङ्ग्रहेष्वयं विधि-नियमनयो द्रष्टव्यः / य एवं वर्णिताः, तेऽपि च सङ्ग्रहाः सङ्ग्रहेण त्रिविधा भवन्ति- द्रव्य-स्थित-नयप्रकृतयः द्रव्यप्रकृतयः कर्म-पुरुषकारायेकान्तवादाः, स्थितप्रकृतयः पुरुष-काल-नियत्यादिवादाः, नयप्रकृतयः प्रकृतीश्वरादिकारणवादाः। तेषु चायं नयः स्थितप्रकृतीनां 1 एकैकश्च शतविधः, सप्त नयशतानि भवन्ति एवमेध /

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384