Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 362
________________ जगत्कर्तृकेश्वरविचारः ] न्यायागमानुसारिण्यलङ्कृतम् / पुरुषकारैकान्तवादः प्रतिषेध्यः। तद्यथा- कर्म च कारणं प्रवर्तयितृत्वात् / सुखदुःखोत्कर्षापकर्ष-विकल्पानुभवावश्यंभावितस्य चैकस्यैवोक्तवत् , सर्वा(वत्वा)दुपयोगत्वात् पुरुषताऽपीत्यादि सर्वमशेष योजनीयम् / यत् परेणानभ्युपगतमन्यतरदितर[त्] तदितरसिन्नापाद्यमिति / / तत आह- यत्रैकस्य स्वातत्र्यं तत् तत्प्रदर्शिततत्त्वस्येतरस्थापीति भावनीयमिति भावनोपायं प्रदर्शयति सामान्येन, तथा विशेष्य भावितमेवास्माभिरिति न केवलं कर्मात्मनोरेवाभिन्नैक्यम् / किं तर्हि ? यथा चात्र तत्त्वं कर्मात्मनोः सर्वप्रभेदेषु वृत्तं भावितमस्माभिस्तथाऽवगाहादिलक्षणैरस्तिकायैरवगाह-गति-स्थितिलक्षणैराकाश-धर्माधर्माख्यैः सह कर्मात्मविचारोक्तात् प्रवर्तक-प्रवर्त्यन्यायाद् भावनीयमिति वर्तते / यथा प्रवर्तक एव प्रवर्त्य इत्युक्तं तथाऽवगाहादि प्रवर्तकं प्रवर्त्य चोभयमेकमेव कर्मात्मवदिति / पुनरपि तद्भावनार्थमाह___ तद्रव्यत्वात् यद् यद् द्रव्यम्, तत् तत् तत्त्वं यथा प्राग् भावितं पृथिव्यादि. व्रीह्यादि पृथिव्यादिवत् / तद्रव्यत्वमसिद्धमिति चेत् ? नेत्युच्यते-अवगाहादेव द्रव्यं यथा वियदादि / एवमात्माऽऽद्यपि / यथाऽवगाहोपकारगुणमाकाशम् , गतिस्थित्युपकारगुणौ धर्माधर्मी, एवमात्म-परमाण्वादि द्रव्यमपि / कुतो हेतोः तस्यैव तथाभूतेस्तदेव ह्यात्मपुद्गलद्रव्यं तथा तथाऽवगाह-गति-स्थितिरूपेण भवति / किमिव ? उदकादि-व्रीहित्व-शिवकादि-घटत्ववत् / यथोदक-पृथिव्याकाश-वातबीजाङ्कुरादय एव बीहीभवन्ति, युगपद्भाविनो भावाः, यथा च क्रमभाविनः शिवक-स्थासक-कुशूलकादय एव घटीभवन्ति तथाऽऽत्माद्यप्यवगाहादिरवगाहादि वियदादि वियदाद्यवगाहादि अवगाहाद्यात्मादि च भवतीति, तस्य तस्य तद्रव्यत्वम् , तद्रव्यत्वात् प्रवर्तक-प्रवत्र्यैकन्यायोऽवस्थितस्तस्साचात्म-पुद्गलाकाश-धमोधमोस्तिकाया एकं तत्त्वं सर्वप्रभेदवृत्तमिति / किं चान्यत- अविभक्तेत्यादि, यावदेकमेवेदं भवनमवगाहोऽवगाहमानादात्माऽण्वादेरविभक्तोऽवगाह्यमप्याकाशमवगाहधर्मस्य स्खलिङ्गस्य पृथगसिद्धेखगाहकादविभक्तं द्रव्यार्थविवक्षायां पर्यायस्याभावात् / तस्मादेकमेवेद भवनमिति साधूक्तम् / तत् पुनरन्यत्र प्रतिवादिमते मिथ्याग्राहोत्थापितेत्यादि, यावत् सर्वगतेतराभिमतद्रव्यमिति / कार्यद्रव्यं पटादि कारणद्रव्यात् तन्त्वादेरन्यत् / तन्त्वादि च कार्यादन्यत् , एवं गुणाः पत्ररक्त-श्यामत्वादयः पत्रात् कारणकार्याख्याः परस्परतश्च कर्माद्युत्क्षेपणादिक्रियाप(व)द् द्रव्यसमवेत-सर्वगतासर्वगतद्रव्याद् गुणेभ्यः परस्परतश्च द्रव्य-गुण-कर्मभ्यः परस्परतश्चान्ये सामान्यविशेष-समवाया इतीत्थं प्रभेदं तदेवासदुक्तं भवनं मिथ्याग्राहोत्थापितं कैश्चित् /

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384