Book Title: Dwadashar Naychakram Part 01
Author(s): Chaturvijay, Lalchandra Bhagwandas
Publisher: Oriental Research Institute Vadodra
View full book text ________________ 299 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / यच्चापीत्यादि / न केवलं कर्तृसाधन एव दोषः / किं तर्हि ? कर्मैकान्तवादोऽप्ययुक्तः / तत्प्रदर्शनार्थमाह- एवं वादिनस्ते पुनः कार्यलक्षणत्वात् कर्मणः, कार्य कर्म, यत् क्रियते तत् कर्म, 'कतुरीप्सिततमं कर्म' (पा.१।४।४९) इति लक्षणादक्षरार्थाच्चानुमेयः कर्ता / तस्मात् कर्मणोऽन्यं कर्तारं कर्मव्यतिरिक्तमन्तरेण कर्माभावात् , घटस्येव कुलालो वाऽस्यैष्यः कर्ता / प्रयोगश्च- स्वतो व्यतिरिक्तं चेतनकर्तृत्व(कं) त्वदिष्टं कर्म कार्यत्वात् क्रियमाणत्वाद् घटवदिति / अत्रोत्तरम्-परः / ननु कर्मणैव करिष्यत इति स्वत एव कर्मणा कर्म क्रियते / न तद्व्यतिरिक्तेन कāत्युक्तम् / व्रीहिणैव व्रीहिः, कार्यण बीजबीहिणा कार्योऽङ्कुरबीहिः क्रियत इत्युक्तं मयेति / इतर आह- ननु सुदूरमपि गत्वेत्यादि, विचार्याप्यात्मव्यतिरिक्त पुरुषाविनाभावित्वात् कर्मणस्त्वयाऽप्येतदभ्युपगन्तव्यं कर्मवादिना कर्मव्यतिरिक्तः कर्ता पुरुषोऽस्तीति / कस्मात् ? बीहेरप्यावर्तकत्वात् / अस्यापि व्रीहिदृष्टान्तस्य क्षित्युदकाकाश-वाताङ्कराद्यावृत्तिरूपत्वात् तेषां च स्वरूपभेदात् स्वतः पृथग्भूतकर्तृ(ब)विनाभूतं कर्म सिद्ध्यत्यतो विपर्ययसाधनत्वमिति / किं चान्यत् , अक्षरार्थाच्च 'क्रियत इति कर्म 'कर्तुरीप्सिततमं कर्म' (पा. 1 / 4 / 49) इति कर्मशब्दाक्षरार्थः / ततस्तस्य कृतकत्वं निर्विवादम् , तसाच निर्विवादकत्वात् कर्मणः कतुरेव भावः स्वतत्रस्य पुरुष एव भवति, कर्तुरेव भावः सर्वस्येति पञ्चमीनिर्देशात् वा पुरुषादेव सर्व भवति कारणात् / एवं च त्वदुक्तहेतोरेव कर्मव्यतिरिक्तपुरुषसिद्धेः, कर्मणश्च तद्व्यतिरिक्तस्य सिद्धेः। आवर्तकवैधhण कर्मणः कृतकत्वं कर्थान्तरभूतस्यावधारणं च युक्तम् / कुतः ? तच्छक्तेः, तसादेव हि कर्तुः पुरुषात् कर्मणः कृतकत्वशक्तिः, कर्तुर्वा पुरुषस्य करणशक्तिने व्रीहिणैव व्रीहिवदावर्तकत्वेनेति / न हि स क्रियमाण इत्यादि, यावद् आभूतदेवदत्तवदिति / तदेव भावयति- तस्याः कर्मशक्तेः [अ] स्वतन्त्रत्वमलब्धात्मवृत्तित्वादस्वातत्र्याच कुतो भवनम् ? दृष्टान्तः आभूतदेवदत्तः। गर्भोपक्रमावस्थायां कार्यायामलब्धात्मकवृत्तित्वादस्वतत्रः, अवतन्त्रत्वाद-कर्ता, अकर्तृकत्वाच न भवति कार्यावस्थाव्यतिरेकेण / अथ(यथा) देवदत्तः, तथा कार्यावस्थायां कापि क्रियमाणं न भवेदनिष्टं चैतत् त्वयाऽपि / तस्मात् कर्म भवति / तच्च पृथग्भूतपुरुषभवनाद् ऋते न भवतीत्यस्ति पुरुषः। किं चान्यत् , पुरुषकारप्रत्याख्याने सर्वशास्त्रवैयर्थ्यप्रसङ्गः। कथम् ? यथाक्रम हितप्राप्त्यहितपरिहारावौँ सर्वशास्त्राणां, ताभ्यां च हिताहितप्राप्ति-परिहारार्थाभ्यां निरुक्तीकृतसत्यत्वानि प्रमाणान्तरसंवादेन चिकित्सितादीनि शास्त्राणि / यथा 1 गर्भपि कप।
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384