________________ 299 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / यच्चापीत्यादि / न केवलं कर्तृसाधन एव दोषः / किं तर्हि ? कर्मैकान्तवादोऽप्ययुक्तः / तत्प्रदर्शनार्थमाह- एवं वादिनस्ते पुनः कार्यलक्षणत्वात् कर्मणः, कार्य कर्म, यत् क्रियते तत् कर्म, 'कतुरीप्सिततमं कर्म' (पा.१।४।४९) इति लक्षणादक्षरार्थाच्चानुमेयः कर्ता / तस्मात् कर्मणोऽन्यं कर्तारं कर्मव्यतिरिक्तमन्तरेण कर्माभावात् , घटस्येव कुलालो वाऽस्यैष्यः कर्ता / प्रयोगश्च- स्वतो व्यतिरिक्तं चेतनकर्तृत्व(कं) त्वदिष्टं कर्म कार्यत्वात् क्रियमाणत्वाद् घटवदिति / अत्रोत्तरम्-परः / ननु कर्मणैव करिष्यत इति स्वत एव कर्मणा कर्म क्रियते / न तद्व्यतिरिक्तेन कāत्युक्तम् / व्रीहिणैव व्रीहिः, कार्यण बीजबीहिणा कार्योऽङ्कुरबीहिः क्रियत इत्युक्तं मयेति / इतर आह- ननु सुदूरमपि गत्वेत्यादि, विचार्याप्यात्मव्यतिरिक्त पुरुषाविनाभावित्वात् कर्मणस्त्वयाऽप्येतदभ्युपगन्तव्यं कर्मवादिना कर्मव्यतिरिक्तः कर्ता पुरुषोऽस्तीति / कस्मात् ? बीहेरप्यावर्तकत्वात् / अस्यापि व्रीहिदृष्टान्तस्य क्षित्युदकाकाश-वाताङ्कराद्यावृत्तिरूपत्वात् तेषां च स्वरूपभेदात् स्वतः पृथग्भूतकर्तृ(ब)विनाभूतं कर्म सिद्ध्यत्यतो विपर्ययसाधनत्वमिति / किं चान्यत् , अक्षरार्थाच्च 'क्रियत इति कर्म 'कर्तुरीप्सिततमं कर्म' (पा. 1 / 4 / 49) इति कर्मशब्दाक्षरार्थः / ततस्तस्य कृतकत्वं निर्विवादम् , तसाच निर्विवादकत्वात् कर्मणः कतुरेव भावः स्वतत्रस्य पुरुष एव भवति, कर्तुरेव भावः सर्वस्येति पञ्चमीनिर्देशात् वा पुरुषादेव सर्व भवति कारणात् / एवं च त्वदुक्तहेतोरेव कर्मव्यतिरिक्तपुरुषसिद्धेः, कर्मणश्च तद्व्यतिरिक्तस्य सिद्धेः। आवर्तकवैधhण कर्मणः कृतकत्वं कर्थान्तरभूतस्यावधारणं च युक्तम् / कुतः ? तच्छक्तेः, तसादेव हि कर्तुः पुरुषात् कर्मणः कृतकत्वशक्तिः, कर्तुर्वा पुरुषस्य करणशक्तिने व्रीहिणैव व्रीहिवदावर्तकत्वेनेति / न हि स क्रियमाण इत्यादि, यावद् आभूतदेवदत्तवदिति / तदेव भावयति- तस्याः कर्मशक्तेः [अ] स्वतन्त्रत्वमलब्धात्मवृत्तित्वादस्वातत्र्याच कुतो भवनम् ? दृष्टान्तः आभूतदेवदत्तः। गर्भोपक्रमावस्थायां कार्यायामलब्धात्मकवृत्तित्वादस्वतत्रः, अवतन्त्रत्वाद-कर्ता, अकर्तृकत्वाच न भवति कार्यावस्थाव्यतिरेकेण / अथ(यथा) देवदत्तः, तथा कार्यावस्थायां कापि क्रियमाणं न भवेदनिष्टं चैतत् त्वयाऽपि / तस्मात् कर्म भवति / तच्च पृथग्भूतपुरुषभवनाद् ऋते न भवतीत्यस्ति पुरुषः। किं चान्यत् , पुरुषकारप्रत्याख्याने सर्वशास्त्रवैयर्थ्यप्रसङ्गः। कथम् ? यथाक्रम हितप्राप्त्यहितपरिहारावौँ सर्वशास्त्राणां, ताभ्यां च हिताहितप्राप्ति-परिहारार्थाभ्यां निरुक्तीकृतसत्यत्वानि प्रमाणान्तरसंवादेन चिकित्सितादीनि शास्त्राणि / यथा 1 गर्भपि कप।