________________ नयचक्रम् / [विधिनियमारः "कटुकः कटुक[ः] पाके, वीर्योष्णश्चित्रको मतः। तद्वद् दन्ती प्रभावात् तु, विरेचयति सा नरम् // " 'नागरातिविषा मुस्ता, क्वाथः स्यादामपाचनः // ' [चरकसंहिता ? ] इत्यादीनि पुरुष- तक्रिययोरभावे कर्मकारणैकान्ते निराकृतानि स्युरित्थं न चेष्यते तन्निराकरणं कस्यचित् प्रमाणान्तरसंवादिनः शास्त्रस्य प्रामाण्यदर्शनात् / त्वदुपदेशादिक्रियाणां च दृष्टार्थानां निराकरणमेवमिति वर्तते / कर्मकारणकान्ते पुनः पुरुषस्य स्वतन्त्रस्य, तक्रियायाश्चाभावे परप्रतिपादनाथं तच्छक्तियुक्तशब्दोच्चारणक्रिया न स्यात् , कर्मत एव प्रवृत्तेः / आदिग्रहणादोदनस्य मुखसंयोजनादिक्रियाश्च न स्युः, कर्मप्रवृत्तिमात्रत्वात् / तत्प्रतिपत्त्यपत्त्योः त्वदुपदेशार्थप्रतिपत्तिः कर्मत एव परस्य स प्रतिपद्य[ते] विनाऽप्युपदेशेन, न प्रतिपद्यते वा सत्यप्युपदेशे / कर्मप्रवृत्तिमात्रत्वादित्यादि यावत् कर्मण एवेति चेत् स्यान्मतम् , यदुच्यते शास्त्रनिराकरणमेवं त्वदुपदेशादिनिराकरणं च कर्मणोऽस्वतत्रत्वे सत्यलब्धात्मवृत्तित्वादाभूतदेवदत्तवदभवनं निर्विवादकृतकत्वात् कर्तुरेव भावस्तच्छक्तेः, व्रीहेरप्यावर्तका(कत्वात् स्वरूपभेदात् पुरुष एव भवतीत्यादि सर्व नोपपद्यते, कर्मत एव भवतीत्युपपद्यते, कर्मप्रवृत्तिमात्रत्वात् / तथा शास्त्रार्थस्यास्मदुपदेशादिक्रियाणां च प्रतिपत्त्यप्रतिपत्त्योः कर्मप्रवृत्तिमात्रत्वात् / प्राज्ञपुरुषप्रतिपत्तिवत् , बलीवर्दाद्यप्रतिपत्तिवञ्च / तस्मात् सर्वाण्येतानि कर्मण एव हेतोभवन्ति, पूर्वोक्तन्यायवचिन्ता-व्यायामादिशारीर-मानसक्लेशफलत्वात् तस्येति चेदाशङ्कायाम् , एवं चेन्मन्यसे, ततस्त्वमिदमसि तावत् प्रष्टव्यः। अथ तदादिकर्म कुतः ? इति / मम तावदभिप्रायः कृतकत्वात् कर्मणः पुरुषादेव तदिति / तन्नेच्छता त्वया वक्तव्यम्- कुतस्तदादिकर्म ? यत एतत् सर्व प्रतिपत्त्यप्रतिपत्तिक्लेशादीति त्वदभिप्रायाकर्षणार्थः प्रश्नः। किं तदपि कर्मण एवोत पुरुषात् ? इति ब्रूयास्त्वम् 'ओम् , पुरुषादेवेति / एवं नामास्तु, को दोषः ? गत्यन्तराभावात् कर्मत एवेत्यभिप्रायः स्यादिति / अत्र ब्रूमः- न व्रीहिवैधयेणाकर्तृकत्वात् / व्रीहेरस्या(प्या)वर्तकत्वात् कर्तृत्वमुपयाति / तमो वाऽतो व्रीहिरकृतकोऽकर्तृकत्वात् / ततश्चाक्रियमाणत्वान्नोपपद्यते कर्मणः कर्मत्वम् , तस्यादिकर्मणः / किमिव ? आत्मादिवत् / यथाऽऽत्माऽऽकाश-काल-दिगादीनि न केनचित् क्रियन्त इत्यकर्माणि, तथाऽऽदिकर्मापि स्यात् , नोत्क्षेपणवदिति वैधर्म्यदर्शनम् / यथोत्क्षेपणं कर्म तद्वयतिरिक्तेनोत्क्षेत्रा विना न भवति, तथेदमिति / एवं पुरुषकारवादिना कर्मवादी दूषितः, कर्मवादिना च प्राक् पुरुपकारवादी। तस्माद् यदुक्तमेवं च कृत्वा तदपि सर्वमसम्बद्धं यत् कर्मकारणैकान्तिन आहुः, यच्च 1 क्रमः प।