________________ नयचक्रम। 298 [विधिनियमारः "अनर्थपाण्डित्यमधीत्य यत्रितः, सुतेषु दारेषु च नित्यशङ्कितः / 'निशासु जागर्ति हिनस्ति बान्धवान् , नमोऽस्तु राज्याय वरं दरिद्रता॥" इति। अथ प्रसिद्धिविरोधदोषभयाद् दुःखमधर्मफलमिति त्वयाऽनुज्ञायते / तत्साचिव्यक्रियायाश्च हिंसादेर्दुःखसाधनतां गतत्वात् तत्कर्मणो हेतोः प्राणातिपातादेर्धर्मफलप्राप्तिः / कोऽसाविष्टशरीरेन्द्रियविषय] सुख-सम्यग्ज्ञानारोग्यादिप्राप्तिरित्येतत् प्राप्तं शुभाशुभयोरि[ष्टानि]ष्टविपर्ययफलाभ्युपगमाद् 'धर्मान्नयोद्योगौ दुःखं वा' इत्युक्तत्वादत एव प्राप्तमधर्मफलाद् दुःखात् सुखं धर्मफलमिति प्राप्तम् / किं तत ? इति दिग्()मानं प्रदर्शयति- इष्टप्राप्तिरिति / इष्टशरीरेन्द्रियादिप्राप्तिरित्येतत् प्राप्तम् / किं कारणम् ? धमाधर्मफलविपय[यात् इत्यतः पुरुषकारनैरर्थक्यं च, यादृच्छिकत्वाविशेषात् / अतो यदुक्तं 'कर्मैव कारणम् , पुरुषकारस्यापि कर्मफलत्वात्' इति श्रेयान् पक्षः / यथोक्तम् "यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवोपतिष्ठते / तथा तथा पूर्वविध्यनुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते // " अभ्युपगम्यापि पुरुषकारं दोषं ब्रूमः- स निर्हेतुकः, सहेतुको वा स्यात् / किं चातः ? स च पुरुषकारो यद्यहेतुको मुक्तानामपि स्यात् नयोद्योगलक्षणः, न चेष्टस्तेषाम् / अथ मा भूदेष दोष इति सहेतुरिति ब्रूयात् , ततः सहेतुश्चेत् कर्मण एव चेतनाच्छुभादपि पुरुषकाराच्छे(त् से)वादिकादनावाप्तेश्च शुभादपि प्राणातिपातादेरावाप्तेः, धर्माधर्मफलसरोक्तेरनुमान(तुं) शक्यत एतदबुद्धिपूर्वकादचेतनकर्मवशादेवैतच्छुभाशुभवैचित्र्यम् / किं कारणम् ? युक्तिक्षमहेत्वन्तराभावात् / विचारितनिषिद्धत्वात् पुरुष-नियति-काल-स्वभावादिहेत्वन्तराणां नानान्यद् विमर्दक्षम कारणमस्त्यन्यदतो दैवाख्यात् कर्मणः / यदा चेत्यादि / यस्मिन् काले एवं च कृत्वा पुरुषस्य प्रवृत्तौ साध्यायां नास्ति कर्तृत्वमिति सिद्धे कर्मण एवेति च सिद्धे तदा तस्मिन् काले द्रवतीति द्रव्यं कर्तृसाधनं न भवति, स्वतत्रस्य कर्तुरनुपपत्तेः / कर्मपरिग्रहाविशेषस्तु / तुशब्दो विशेषावधारणार्थः। कर्मसाधनमुपपन्नाथ द्रव्यम् , द्रूयत इत्ययं विशेषोऽवधार्यते। तद्विग्रहं दर्शयति- द्रूयते गम्यते इत्यादि / तदिदानीं निरूप्यते- भोग्येन कर्मपुरुषेण तेन द्रव्यं क्रियते / किमुक्तं भवति ? कर्मपुरुषेणैव कर्मपुरुषः क्रियत इत्युक्तं भवति / तत्र दृष्टान्तो यथा-व्रीहिणैव व्रीहिः क्रियत इति कार्येणैव बीजव्रीहिणाऽङ्करबीहिरिति तद्व्याख्या / एवं तावदवधारणेन कत्रों निराकृतः, कर्मैकान्तवाद उपपादितः / चेतनाचेतनैक्यात् सर्वसर्वात्मकत्वाच्चायुक्त ईश्वरोऽन्यो हेतुरिति चेति / 1 विशा° प / 2 काशा प / 3 संस्कारो प।