________________ जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 297 मृतत्वाय कल्पेतेति दृष्टेष्टविरोधदोषप्रसङ्गः / तथा कार्ये(ये)न्द्रियनिर्वर्तनेऽप्यनिष्टशरीरेन्द्रियादि न स्यात् काणं कुण्टं बधिरादि, सम्पन्नेन्द्रिय-जाति-संस्थान-संहननादियुक्त एव स्यात् / पुरुषकारकार्यनिर्वर्तनेव(च) धर्माद्यनुष्ठान-विषयोपभोगादाविष्टस्यैव करणं खातव्यात् स्यात् / तस्मात् तत् सर्वमेव तत्कर्मण एव हेतो त्मनः / कर्मण इति पञ्चम्या हेत्वर्थे विहितत्वात् / तदतिरेकेण क आत्मनि प्रतिपद्येत ? / तस्मादेवंविधात् क आत्मन्येतदनुपपद्यमानं कर्मव्यतिरेकेणाभ्युपगच्छेत् ? नाभ्युपगच्छत्येव विद्वानित्यभिप्रायः / तस्मादहेतुः पुरुषस्तत्कारश्च / स्यान्मतम्अकारणमपि कर्मसहायापेक्षत्वात्। पुरुषकारमकारणमपि कर्मसहायमपेक्षते, कवलास्यप्रक्षेपादिवत् / यथोक्तम् "आलस्याद् यो निरुत्साहः, स किश्चिन्नाश्नुते फलम् / स्तनक्षीरादिपानं च, पौरुषान विशिष्यते // " अतो भारोत्पाटवत् / यथा भारं समुद्वहन् पुरुषः सहायमुत्क्षेप्तारं निक्षेपकं चान्तरेण स्वयमेव न शक्नोति वोढुमिति कारण[म]कारणं च दृष्टः / तथा 'कर्म पुरुषकारमन्तरेणेति [कारणम]कारणं च' इत्येतदपि च न मन्तव्य[म]कारणमपीत्यादिना तमेव पूर्वपक्षं व्याचष्टे / भारोत्पाटापेक्षभारोद्वाहवदत्र किं सहायं कर्मणोऽपेक्ष्यमिति चेत, उच्यतेफलोपहारायेत्यादि / फलमुपहरिष्यतः कर्मणस्तत्स्वामिनः कर्तुर्नयोद्योगावान्तरावपेक्षौ बाह्या स्वामात्यादिप्रकृतिः / किं पुनः कारणमेवं न मन्तव्यम् ? उच्यते-यतस्तान्यपि हि स्वामिधर्म[]धर्मरज्जूयति निवड्यामी(द्धानी)त्यादि, यावत् तन्तुपटवत् सहेतुकदृष्टान्तेन पटवाक्येनामात्यादीनां धर्माधर्मकार्यत्वमापाद्य कर्मकारणावधारणात् पुरुषकारं निराकरोति, तदायत्तत्वात् तद्भोग्यत्वादि[त्यादिना हेतुसौलभ्यं च दर्शयति-तन्तुपटवदिति तन्त्वायत्तपटवत् / पटत्वेन तन्तूनामेव भोग्यत्ववत् / यदि तानीत्यादि / एवमनभ्युपगमे सर्वाशेषप्रसङ्ग इत्यनिष्टापादनम्। योऽपीत्यादि / यदपि चोक्तं खामिनयोद्योगावपेक्ष्याविति / स्वामिपुरुषकारः। सोऽप्यधर्मफलत्वात् कर्मैव, न पुरुषकारो नाम कर्मातिरिक्तोऽस्तीत्यवधारणार्थ प्राक् प्रतिज्ञातं समर्थयति-क्लेशत्वात् / क्लेशो हि चिन्ता-व्यायामरूपो मनः-शरीरायासात्मकत्वात् , ज्वरवत् / अथेत्यादि / अथैनं पुरुषकारसंक्लेश[म]धर्मफलं नेच्छसि, प्रज्ञोत्साहयुक्तस्य प्रशस्तत्वेनेष्टत्वाल्लोके ततो न तर्हि दुःखमधर्मफलमिति प्राप्त शिरोरोगादिक्लेशत्वानयोद्योग-पुरुषकारवत् / यथोक्तम् न० च० 38