________________ नयचक्रम् / [विधिनियमारः च कारणानां निराकृतत्वात् / तस्य सिद्ध्यसिद्धिभेदकार्यलिङ्गादनुमानं देशान्तरप्राप्त्यनुमेयादित्यगतेरिव द्विविधा चेत्यादिना तल्लिङ्गासिद्धिपरिहारार्थ यावदितरस्येति गतार्थे प्रसिद्धं लिङ्गमित्यर्थः। तत्रेत्यादि / तत्रैतस्मिन् कारणवैचित्र्यानुमानलिङ्गे कार्ये त्वदिष्टपुरुषव्यापारस्यावतार एव नास्तीत्यावयोलॊकस्येव प्रसिद्ध कार्यलिङ्गे त्वदभिमत-कारणासम्भवोऽस्मन्मतकारणसम्भव एवेति च दर्शयति / कस्मात् ? स्वशक्त्याधानासमर्थत्वात् / कस्य स्वशक्तिः 1 इति चेत्, चेतनस्य पुरुषस्य / चेतनामात्रसारो हि पुरुषकारः शक्तिः। हिशब्दो यस्मादर्थे / यतोऽस्यैषा शक्तिरेषां(तां) चाधातुमशक्तोऽसाविष्टे मनुष्यत्वे पशुत्वे वर्तमान इति स्वशक्त्याधानासामर्थ्य दर्शयति / न च स इत्यादि / सत्यपि चैतन्ये तां स्वां चैतन्यशक्ति कर्मबलाकृष्ट-निकृष्टपश्वज्ञानकुशक्तौ वर्तमानो न विशिष्टेष्टमनुष्यचैतन्ये स्थापयितुं शक्त इति विपर्ययेण मनुष्यः सन्न तत् ज्ञानं पशावाधातुं समर्थ इति वर्तते / तस्यात्मनो यत् स्वतत्वमिति त्वया प्रतर्कितं तन्न शक्नोति कर्मवशीकृतो योनिजात्यन्तरस्थो योनिजात्यन्तरेऽन्यत्राधातुम् / कुतः ? तस्यापि कर्मलभ्यत्वात् , पशोर्मनुष्यस्य वा चैतन्यस्य कर्मवशादेव तथा भावात् , मनुष्यः पशुर्वा स्वजातिनामकर्मोदयादेव [तथा] भवतीत्यर्थः / तदुदयस्य कारणान्तरदुर्निवारत्वात् / तत्र दृष्टान्तमाह अपि तर्हि गङ्गाया इत्यादि / सम्भावनया त्वेतदुच्यते / अपि चैतत् सम्भाव्यं देवक्रिययोत्पातादिना गङ्गास्रोतस्यान्यथा प्रवृत्तस्य कर्मणोऽन्यथा प्रवर्तनमिति / एवं तावदभ्युपगम्य स्वतत्रं चेतनं पुरुपकारं च तस्योक्तम् , नैव वाऽभ्युपगच्छाम एतत् सर्व किश्चित् कर्म-व्यतिरिक्तम् / कुतः ? तत्त्वचिन्तायां कर्मव्यतिरिक्तकारणानवस्थानादित्येतद् दर्शयति- यापि चेत्यादि, यावद् वेतालाविष्टशवशरीरवदिति / कर्म-वेतालाविष्टो हि पुरुषोऽस्वतत्र इष्टानिष्टतुल्यप्रवृत्तिः परवशत्वात् पुरुषस्य / उपक्रमप्रभृति इत्यादि, यावत् जह्यादिति / तत्स्वातत्र्याभावप्रतिपादनार्थी निमेषोपक्रमादारभ्य मरणापवर्गावसान इति गतार्थः / पुनरप्यतो यथाऽऽहारविशेषेत्यादि, यावदिहैवामृतत्वप्रसङ्गः / मातुरोजः, पितुः शुक्रं च प्रथमाहारस्ततः सप्ताहं कललं भवतीत्यादिना क्रमेण शरीरेन्द्रियादिकारणाहारः प्राणनादियात्रासमर्थस्तस्य च खल-रसादिभावेन विभजनमित्यायसंचेतिताव्यक्तक्रियास्वस्वतन्त्र एव गर्ता( )दिषु सुप्तश्च / तास्तु क्रियाः कर्मकृताः, पुरुषो मत्कृता इत्यभिमन्यते, तथा भासमानत्वात् / तत्कार्यतायां हि पुरुषकारकार्यतायां हि तासां क्रियाणां कदाचिदकरणाभावात् प्राणस्थितिहेत्वनुपरिमा(रम)णात् मरणाभावस्तस्मादिहैवा