________________ 295 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलकृतम् / स्थित्वा प्रवृत्तिरित्यसिद्धार्थत्वाद् विशिष्टचेतनाधिष्ठितत्वं तन्वादीनां न साधयितुमलमिति / यदपि विशेष्योक्तं मिथः प्रत्यनीकसम्भूयैकार्थकारित्वादिति, तदसत्त्वं तु पूर्वोक्तमेव "णिच्छयतो सव्वलहुँ" इत्यादिगाथायाः। तस्मान्नेश्वरपूर्विका सृष्टिः, किन्त्वनेकैकेश्वरपूर्विकेति विज्ञेया / एवं च कृत्वेत्यादि / अनेनैकान्तेश्वरपूर्वकवाददोषप्रकाशनेन कर्मैकान्तवाददोषप्रकाशनमपि कृतं वेदितव्यम् , असम्बद्धत्वात् तस्य कमकान्तवादस्य / कथं पुनस्ते कर्मकान्तवादिन आहुः ?, कथं वा तदसम्बन्धः? इत्यतस्तत् प्रदर्शयन्तः, तावत् पुरुषा(प)कारं निराकुर्वन्तः, कर्म समर्थयन्तःत इत्थमाहुरिति तदुपपत्तीदर्शयति यथा-यदि प्रवर्तयितृत्वात् पुरुष[:] कारणं स्यादिति पुरुषकार एव कारणं, न कर्मापीति चेन्मन्यसे इत्येकान्तं सूचयति / तत इदमनिष्टं पुरुषकारकारणैकान्तिनस्ते प्राप्तम् / कतमदनिष्टम् ? उच्यते-प्रधानमध्यमाधमभिन्नाः सिद्धयोऽसिद्धयो वा नाना न स्युः, ताश्च दृष्टाः, 'न हि दृष्टाद् गरिष्ठमन्यत् प्रमाणमस्ति' / कस्मानाना न स्युरिति चेदुच्यते- उत्कर्षार्थिकारणैकत्वात् आत्मोत्कर्षार्थी पुरुष एककारणं न, कर्मापि कारणमिति पुरुषकारकारणैकान्तवादमाशङ्कते / पुरुषकारस्यैकत्वमुत्कर्षार्थिपुरुषकारैकत्वम् / उत्कर्षार्थिनः पुरुषस्य क्रियाकारः तस्यैकत्वात् / प्रधान-मध्यमाधमभेदभिन्नाः खाचार-दुराचारविकल्पद्वयकृता लोकप्रसिद्धाः पुरुषकारा न सिद्ध्यन्ति, एक एवोत्कृष्टः प्राप्नोति / ततश्च तत्साध्यानामपि फलभूतानां प्रधान-मध्यमाधमानां शुभाशुभानां भेदा न प्राप्नुवन्ति / एकैवोत्कृष्टा सिद्धिः प्रामोति, न मध्यमाधमे सभेदे सिद्धी साताम् / नापि च पुरुषकाराणामसिद्धयः स्युस्ताश्च दृष्टा इति तदुपसंहृत्य साधनमाहसप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात् / तुल्यं तन्तुपटवदिति / पुरुषकारस्यैव कारणत्वात् , तद्व्यतिरिक्तकारणाभावाद् भवतः पुरुषकारैकान्तवादिनः कर्मानपेक्षत्वादिति / इत्थं परपक्षे दोषमुक्त्वा स्वपक्षसाधनमाह- कार्यातिरेकात् तु कारणातिरेक इति कर्मैव प्रवर्तयित् / इति-शब्दो हेत्वर्थे / कार्याणामनेकभेदानां सिद्धीनामसिद्धीनां च परस्परतोऽतिरिक्तत्वात् कारणातिरेकेणावश्यं भवितव्यम् / तच्च कारणं कमैव पुरुषस्य त्वदभिमतस्य प्रवर्तयितुः प्रवर्त्यमनेकभेदमिति ग्रहीतव्यम् / तस्य कार्यनानात्वानुमितस्य कारणसामान्यस्य कर्मेति संज्ञा क्रियते, पुरुषकारस्य पुरुषादीनां 1 सम्पूर्णा गाथा त्वेवम्-"निच्छयओ सव्वगुरूं, सव्वलह वा न विजए दुव्वं / ववहारओ उ जुञ्जइ, बायरखंधेसु नण्णेसु // " [ निश्चयतः सर्वगुरु, सर्वलघु वा न विद्यते द्रव्यम् / व्यवहारतस्तु युज्यते, बादरस्कन्धेषु नान्येषु // ]