________________ 294 नयचक्रम् / [विधिनियमारः तसात् कर्म-कर्मिणोरन्योन्यादिकरत्वम् / केवलिनस्तु विगतसर्वावरण-विघ्नमोहत्वाद् यद्यप्युपयोगावरणाभावात् तथाविधोपयोगगतिरसिद्धा / तथापि वेद्यायुनोम-गोत्र-कर्मचतुष्कतत्प्रयुक्तत्वादिहेतुसद्धावादन्योन्यादिकरत्वं सिद्धम् / सिद्धानां तु कर्मनिर्मुक्ताव्याबाध-पारिणामिक-परमसुख-क्षायिकसम्यक्त्व-ज्ञान-दर्शन-वीर्यलब्ध्यादीनां चादिकरत्वम् / नन्वात्म-पुद्गलैक्यापत्तिवचनादेव वा भेदप्रतीतेः खवचनविरोध इति / एतन्न, कस्मात् ? पालन-पूरण-पुरुषत्वात् / 'पालनपूरणयोः' / पालयति सुख-दुःखादिविपाकांस्तांस्तान् पुद्गलानात्मभावेनेति / पाल्यते तैस्तथाविधोपभो(यो)गगत्येति वा पुरुषः / पूरयति तांस्तैः पूर्यत इति वा पुरुषः / पुमांसं गिलति, पुंसा वा गिल्यते इति पुद्गलः, पूरणाद् गलनाद् वा पुद्गल इति निरुक्तिभेदेऽप्यर्थैक्यात् / पुद्गल-[पुरुष]शब्दयोरिन्द्र-शक्रवदेकार्थत्वाददोषः / अथैवं नेष्यते यथा मयोक्तम्- कर्म-कर्मिणोरन्योन्यादिकरत्वं यदि न स्यात्, ईश्वरवशात् स्वभावादेः प्रकृत्यादेवी कुतश्चित् संसारवैचित्र्यं स्यादितीध्यते / ततो नैवात्मा बध्येत कर्मणा संसारवीजभूतेन शुभाशुभेन / ततश्च तत्फलभूतैः शरीरेन्द्रिय-स्थान-विषयैः शुभाशुभैर्न युज्येत, विकर्मत्वात् , मुक्तवत् / मुक्तो वा बध्येत तत एव तद्वत् / स्यान्मतम्-मुक्तामुक्तविकल्पसम्भव एव परमार्थतः सृष्टिवशव्यवस्थानादिति, तदपि नोपपद्यते / प्रकृतीश्वरादिसृष्टिवशादेव न बध्येत, तनुकरणादिभिने युज्येत भुवनेन चामूर्तत्वादाकाशवत् / आकाश वा बध्येत युज्येत च तन्वादिभिस्तत एव त्वदमि(भिम)तपुरुष इव अनिष्टं चैवमादि भव[त] इति / किं चान्यत्- यदि त्वदृष्टाभावेऽपीत्यादि / मया तावदित्थमदृष्टाख्यकर्मत्वापन्नसर्वपुरुषेश्वरत्वमुक्तं तस्य तस्य तन्वाद्यादिकरत्वात् / तन्नि(न) चेदित्थमादिकरत्वमिच्छसि, ततोऽपि त्वदनुवृत्त्याऽभ्युपगतेऽप्यदृष्टाख्यकाभावेऽपि मया दोष उच्यते- असावीश्वरस्ततस्ते मुक्तानामपि अभूततथाविधहेतुना कर्मणा तनुकरणानि भुवनानि चासौ कुर्यात् , ईश्वरत्वात् , सर्गादिवत् / तथा प्रलयकालेऽपि सर्वेषां कुर्यात् / तत ए[व] तद्वत् / मध्ये वा न कुर्यादीश्वरत्वात् प्रलयकालवत् / अनिष्टं चैत[त् / अ] साचानिष्टात् कर्मात्मैक्यात् , सर्वसर्वात्मकत्वात् सर्वेश्वरता / अत एव चेत्यादि। कर्मात्मैक्य-सर्वेश्वरत्वाभ्यामणव एव कर्म, त एव सुखादयः। तस्माददृष्टात् सृष्टिः, प्रधानात् सृष्टिः, पृथगणुभ्योऽदृष्टचोदितेभ्यो वा सृष्टिरिति वादान्तरपरिकल्पं त्यक्त्वा अस्मदुक्त[कर्मा]त्मैक्य-सर्वसर्वात्मक-सर्वेश्वरत्वाभ्युपगमोऽवश्यं भावी / तस्मात् त्वयोक्त-सम्भूयकारित्वाचेतनत्व-स्थित्वाप्रवृत्तीनामपक्षधर्मता / एकत्वात् कस्य द्वितीयस्य ?, केन सह सम्भूयैकार्थकारिता ?, किं तदचेतनम् ? चेतनात् पृथग्भूतं सततसंवृत्त-पूरण-पालन-गलन-पुंगरणादिधर्मत्वाच, का