________________ 293 जगत्कर्तृकेश्वरविचारः] न्यायागमानुसारिण्यलङ्कृतम् / तस्मादात्मा कर्ता करणयुक्तः कर्मत्वेनादिकरः, पूर्ववत् प्रयोजनपरमार्थत्वाद् भवितृत्वस्य / किमात्मैवादिकरः? नेत्युच्यते / तदपि च कर्मादिकरम् / तदपि च ज्ञानावरणादिकर्म ग्रहणयोग्यमौदारिकादिशरीरभेदादिविपाकं पुद्गलम् / किं भवति नर-नरक-देव-तिर्यग्गति-सङ्ग्रह-भवनवास्यादिनैकप्रभेदं सर्वात्मशरीराणां तत्सम्बद्धात्मनां चादिकरं भवति / तथोक्तम् "जीवपरिणामहेतू , कम्मतया पोग्गला परिणमंति। पोग्गलकम्मणिमित्तं, जीवो वि तवे(हे)व परिणमति // " इति / न केवलमाध्यात्मिकमेवादिकरम् , किं तर्हि ? बाह्यमपि घटादिकरं सर्वादिकरम् / विपर्ययेणापि भावयितुकाम आह- यथा चात्मन्यकर्मणामित्यादि पूर्ववत् सचोद्यपरिहारं गतार्थम् / यावत् को वा ब्रवीति न कर्मभूतोऽसौ, कर्माणि वाऽऽत्मभूतानि नेति? तथाविधोपभो(यो)गगतेस्तत्प्रयुक्तत्वादित्यादिभिर्हेतुभिः। तस्मात् सर्वसवोत्मकत्वात् कोऽन्य ईश्वरः१, का वाऽन्या प्रकृतिः' इति / इतधान्योन्यकारिताऽऽदिकरताऽऽदिकरत्वात् कर्म-कर्मिणोः सर्वसर्वात्मकतेति करणमाह- अचेतनज्ञानावरणेत्यादि / अचेतनानि ज्ञान-दर्शनावरण-वेद्य-मोहायुर्नाम-गोत्रान्तरायाख्यानि सप्रभेदानि कर्माणि पुद्गलात्मकान्युदीर्णान्यप्यात्मनोऽक्षरानन्ततमभागमुपयोगखाभाव्यात् नावृण्वन्ति, शेष केषांचिदावृण्वन्त्येकेन्द्रियनिगोद-सूक्ष्मापर्याप्तकादीनां कर्मणां क्षयोपशमवि(वै)चित्र्यात् // "सव्वजीवाणं पि य णं अक्खरस्स अणंततमो भागो णिचुग्घाडितओ। तं पि जवि(जइ) या(आ)वरिजिज, तेण जीवा(वो) अजीवत्तं पावे / सुदु वि मेह-समुदए, होइ पभा चंद-सूराणं // " [नंदीसत्रे पृ. 195-2] तथा- "खल्पं रजो हि कलुषं च नमः करोति, राहुर॑णोति शशिनं बलवांश्च सोमः / पङ्को विनाशयति वारिगुणाव(णप्र)कृष्टिं दोषा मुहूर्तरभसा बलवान् स्वभावः॥" जीवपरिणामहेतवः, कर्मतया पुद्गलाः परिणमन्ति / पुद्गलकर्मनिमित्तं, जीवोऽपि तथैव परिणमति // सर्वजीवानामपि च ननु अक्षरस्य अनन्ततमो भागो नित्योद्घाटितकः / सोऽपि यदि आवियते, तेन जीवोऽजीवत्वं प्राप्नुयात् / सुष्टु अपि मेघ-समुदये, भवति प्रभा चन्द्र-सूरयोः //