________________ 292 नयचक्रम् / [विधिनियमारः ततोऽसयेयगुणान्याहारकयोग्यानि तावदसङ्ख्येयगुणानि ग्रहणाग्रहणानि पूर्वसात् पूर्वस्मात् / तदुपर्याहारकोत्कृष्ट रूपे प्रक्षिप्ते जघन्यमग्रहणं तैजसस्य जघन्यादुत्कृष्टमनन्तगुणम् / को गुणकारः अभव्येभ्योऽनन्तगुणः, सिद्धानामनन्ततमभागः / तदुपरि रूपाधिके तैजसशरीरयोग्यं जघन्यादुत्कृष्टमनन्तगुणम् / को गुणकारः ? सिद्धानामनन्ततमभागः, अभव्येभ्योऽनन्तगुणः / अनेन विधिनोत्तरेषां भाषा-प्राणापान-मन:-कर्मयोग्यानामग्रहणान्तरितानां ग्राह्याणामुत्तरोत्तरानन्तगुणमानेया / अन्तरं तु ग्राह्याणां जघन्यादुत्कृष्टो विशेषाधिकः सर्वत्र, को विशेषः? तस्यैवानन्तभागः। अग्राह्याणां तु जघन्यादुत्कृष्टोऽनन्तगुणः, को गुणकारः? सिद्धानामनन्ततमभागः अभव्येभ्योऽनन्तगुणः / एवंविधैः पुद्गलैः सर्वत्र लोकेऽवगाढगाढनिचिते कर्मतया परिणमय्य तद्योग्यान काय-बाङ्-मनः-कर्मलक्षणानां त्रयाणां योगानां काययोगेन गृह्णाति / तेनैव कर्मणा(कार्मण)शरीरतया परिणमयति पुरुषः स्ववीर्येण योग्यास्ये(गाख्ये)न वाङ्-मनः-प्राणापानतया परिणमय्य काययोगेनैव वाङ्-मनसा(नः)-प्राणापानतयाऽऽलम्ब्य विसृजति / यथोक्तम् "जोगेहि तदणुरूवं, परिणमयति(इ) गेण्हितू(ऊ)ण पंचतणू / पाउग्गे वाऽऽलंबति, भासाऽऽण-मणत्तणे खंधे // " [कम्मपयडी गा. 17] तथा-"मनसा वाचा कायेन चापि युक्तस्य वीर्यपरिणामः। जीवस्यात्मनि यः खलु, स योगसंज्ञो जिनदृष्टः॥" "तेजोयोगाद् यद्वदु(द्, र)क्तत्वादिर्घटस्य परिणामः। जीवकरणप्रयोगे[1], वीर्यमपि तथाऽऽत्मपरिणामः // " इति / किं कारणम् ? तथाविधोपयोगगतेः बन्धनयोग्यपरिणामापन्नपुद्गलद्रव्यग्रहणपरिणतकृतप्रयोगपरिणामापत्तेः पुरुषस्येत्यर्थः। यथोक्तम् "ऊष्म(उष्ण)गुणः सं(सन् ) दीपः, स्नेहं वा यथा समादत्ते / आदाय शरीरतया, परिणमयति चापि तं स्नेहम् // तद्वद् रागादिगुणः, स योगवाऽऽत्मदीप आदत्ते / स्कन्धानादाय तथा, परिणमयति तांश्च कर्मतया // स्नेहाभ्यक्तस्याङ्गे लगेदेव रजो मलीभवत्यपि वा / राग-द्वेष-स्नेहाभ्यक्तस्य तथा भवति कर्म // रूक्षयति रुष्यते(तो) ननु वक्त्रं स्निह्यति च रज्यतः पुंसः / औदारिकोऽपि तनुभाववशात् परिणम[य]ति देहोऽयम् // " योगैस्तदनुरूपं, परिणमयति गृहीत्वा पञ्चतनूः / प्रायोग्यान वाऽऽलम्बते, भाषा-ऽऽण-मनस्त्वे स्कन्धान् //